३.४३.१वैशंपायन उवाच
३.४३.२गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः
चिन्तयामास राजेन्द्र देवराजरथागमम्
३.४३.३ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः
रथो मातलिसंयुक्त आजगाम महाप्रभः
३.४३.४नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव
दिशः संपूरयन्नादैर्महामेघरवोपमैः
३.४३.५असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः
३.४३.६तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः
वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः
३.४३.७तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः
३.४३.८दश वाजिसहस्राणि हरीणां वातरंहसाम्
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम्
३.४३.९तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम्
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम्
३.४३.१०तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम्
दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत्
३.४३.११तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः
संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत्
३.४३.१२भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम्
३.४३.१३आह माममरश्रेष्ठः पिता तव शतक्रतुः
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः
३.४३.१४एष शक्रः परिवृतो देवैरृषिगणैस्तथा
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते
३.४३.१५अस्माल्लोकाद्देवलोकं पाकशासनशासनात्
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि
३.४३.१६अर्जुन उवाच
३.४३.१७मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम्
३.४३.१८पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः
दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम्
३.४३.१९नातप्ततपसा शक्य एष दिव्यो महारथः
द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु
३.४३.२०त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा
३.४३.२१वैशंपायन उवाच
३.४३.२२तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः
आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः
३.४३.२३ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः
३.४३.२४ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे
३.४३.२५साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम्
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम्
३.४३.२६त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः
३.४३.२७अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्
गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि
३.४३.२८तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः
३.४३.२९एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः
३.४३.३०स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः
३.४३.३१सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम्
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः
३.४३.३२न तत्र सूर्यः सोमो वा द्योतते न च पावकः
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया
३.४३.३३तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै
दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि
३.४३.३४तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा
३.४३.३५तत्र राजर्षयः सिद्धा वीराश्च निहता युधि
तपसा च जितस्वर्गाः संपेतुः शतसंघशः
३.४३.३६गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम्
गुह्यकानामृषीणां च तथैवाप्सरसां गणाः
३.४३.३७लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह
३.४३.३८एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः
यान्दृष्टवानसि विभो तारारूपाणि भूतले
३.४३.३९ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम्
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम्
३.४३.४०स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः
व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः
३.४३.४१अतिचक्राम लोकान्स राज्ञां राजीवलोचनः
ततो ददर्श शक्रस्य पुरीं ताममरावतीम्