३.४४.१वैशंपायन उवाच
३.४४.२स ददर्श पुरीं रम्यां सिद्धचारणसेविताम्
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्
३.४४.३तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम्
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना
३.४४.४नन्दनं च वनं दिव्यमप्सरोगणसेवितम्
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः
३.४४.५नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना
स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः
३.४४.६नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः
३.४४.७नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः
३.४४.८स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम्
३.४४.९तत्र देवविमानानि कामगानि सहस्रशः
संस्थितान्यभियातानि ददर्शायुतशस्तदा
३.४४.१०संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः
३.४४.११ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम्
३.४४.१२आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्
३.४४.१३नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः
३.४४.१४तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः
३.४४.१५राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः
तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू
३.४४.१६तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः
ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम्
३.४४.१७ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्
ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम्
३.४४.१८पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा
दिव्यगन्धाधिवासेन व्यजनेन विधूयता
३.४४.१९विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः
३.४४.२०ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली
स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत
३.४४.२१ततः शक्रासने पुण्ये देवराजर्षिपूजिते
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके
३.४४.२२मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा
अङ्कमारोपयामास प्रश्रयावनतं तदा
३.४४.२३सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा
अध्यक्रामदमेयात्मा द्वितीय इव वासवः
३.४४.२४ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्
३.४४.२५परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ
३.४४.२६वज्रग्रहणचिह्नेन करेण बलसूदनः
मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः
३.४४.२७स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा
३.४४.२८एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम्
सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ
३.४४.२९तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु
३.४४.३०घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा
उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी
३.४४.३१गोपाली सहजन्या च कुम्भयोनिः प्रजागरा
चित्रसेना चित्रलेखा सहा च मधुरस्वरा
३.४४.३२एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः
चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः
३.४४.३३महाकटितटश्रोण्यः कम्पमानैः पयोधरैः
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः