३. वनपर्व
३.५०.१बृहदश्व उवाच

३.५०.२आसीद्राजा नलो नाम वीरसेनसुतो बली
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः

३.५०.३अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा
उपर्युपरि सर्वेषामादित्य इव तेजसा

३.५०.४ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः

३.५०.५ईप्सितो वरनारीणामुदारः संयतेन्द्रियः
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्

३.५०.६तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः

३.५०.७स प्रजार्थे परं यत्नमकरोत्सुसमाहितः
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत

३.५०.८तं स भीमः प्रजाकामस्तोषयामास धर्मवित्
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्

३.५०.९तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः

३.५०.१०दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्

३.५०.११दमयन्ती तु रूपेण तेजसा यशसा श्रिया
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा

३.५०.१२अथ तां वयसि प्राप्ते दासीनां समलंकृतम्
शतं सखीनां च तथा पर्युपास्ते शचीमिव

३.५०.१३तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा
अतीव रूपसंपन्ना श्रीरिवायतलोचना

३.५०.१४न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्
मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी

३.५०.१५नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्

३.५०.१६तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः

३.५०.१७तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान्
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः

३.५०.१८अशक्नुवन्नलः कामं तदा धारयितुं हृदा
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः

३.५०.१९स ददर्श तदा हंसाञ्जातरूपपरिच्छदान्
वने विचरतां तेषामेकं जग्राह पक्षिणम्

३.५०.२०ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम्
न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम्

३.५०.२१दमयन्तीसकाशे त्वां कथयिष्यामि नैषध
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्

३.५०.२२एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः

३.५०.२३विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान्

३.५०.२४सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे

३.५०.२५अथ हंसा विससृपुः सर्वतः प्रमदावने
एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन्

३.५०.२६दमयन्ती तु यं हंसं समुपाधावदन्तिके
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्

३.५०.२७दमयन्ति नलो नाम निषधेषु महीपतिः
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः

३.५०.२८तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे

३.५०.२९वयं हि देवगन्धर्वमनुष्योरगराक्षसान्
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः

३.५०.३०त्वं चापि रत्नं नारीणां नरेषु च नलो वरः
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्

३.५०.३१एवमुक्ता तु हंसेन दमयन्ती विशां पते
अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद

३.५०.३२तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते
पुनरागम्य निषधान्नले सर्वं न्यवेदयत्