३.५२.१बृहदश्व उवाच
३.५२.२तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत
अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः
३.५२.३के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः
किं च तत्र मया कार्यं कथयध्वं यथातथम्
३.५२.४एवमुक्ते नैषधेन मघवान्प्रत्यभाषत
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्
३.५२.५अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव
३.५२.६स वै त्वमागतानस्मान्दमयन्त्यै निवेदय
लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः
३.५२.७प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः
तेषामन्यतमं देवं पतित्वे वरयस्व ह
३.५२.८एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्
एकार्थसमवेतं मां न प्रेषयितुमर्हथ
३.५२.९देवा ऊचुः
३.५२.१०करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध
न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम्
३.५२.११बृहदश्व उवाच
३.५२.१२एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे
३.५२.१३प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्
३.५२.१४ददर्श तत्र वैदर्भीं सखीगणसमावृताम्
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्
३.५२.१५अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्
आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा
३.५२.१६तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम्
३.५२.१७ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः
३.५२.१८प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन्
३.५२.१९अहो रूपमहो कान्तिरहो धैर्यं महात्मनः
कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति
३.५२.२०न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन
तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः
३.५२.२१अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी
दमयन्ती नलं वीरमभ्यभाषत विस्मिता
३.५२.२२कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन
प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ
३.५२.२३कथमागमनं चेह कथं चासि न लक्षितः
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः
३.५२.२४एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह
नलं मां विद्धि कल्याणि देवदूतमिहागतम्
३.५२.२५देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः
तेषामन्यतमं देवं पतिं वरय शोभने
३.५२.२६तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः
प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत्
३.५२.२७एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि