३. वनपर्व
३.५३.१बृहदश्व उवाच

३.५३.२सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते

३.५३.३अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन
सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर

३.५३.४हंसानां वचनं यत्तत्तन्मां दहति पार्थिव
त्वत्कृते हि मया वीर राजानः संनिपातिताः

३.५३.५यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्

३.५३.६एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि

३.५३.७येषामहं लोककृतामीश्वराणां महात्मनाम्
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्

३.५३.८विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्

३.५३.९ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता
प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत्

३.५३.१०अस्त्युपायो मया दृष्टो निरपायो नरेश्वर
येन दोषो न भविता तव राजन्कथंचन

३.५३.११त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः

३.५३.१२ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति

३.५३.१३एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते
आजगाम पुनस्तत्र यत्र देवाः समागताः

३.५३.१४तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत्

३.५३.१५देवा ऊचुः

३.५३.१६कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ

३.५३.१७नल उवाच

३.५३.१८भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्

३.५३.१९प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः
ऋते तां पार्थिवसुतां भवतामेव तेजसा

३.५३.२०सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः
विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः

३.५३.२१वर्ण्यमानेषु च मया भवत्सु रुचिरानना
मामेव गतसंकल्पा वृणीते सुरसत्तमाः

३.५३.२२अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः
त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः

३.५३.२३तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम
एवं तव महाबाहो दोषो न भवितेति ह

३.५३.२४एतावदेव विबुधा यथावृत्तमुदाहृतम्
मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः