३.५४.१बृहदश्व उवाच
३.५४.२अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा
आजुहाव महीपालान्भीमो राजा स्वयंवरे
३.५४.३तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः
३.५४.४कनकस्तम्भरुचिरं तोरणेन विराजितम्
विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम्
३.५४.५तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः
सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः
३.५४.६तां राजसमितिं पूर्णां नागैर्भोगवतीमिव
संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव
३.५४.७तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः
आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः
३.५४.८सुकेशान्तानि चारूणि सुनासानि शुभानि च
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि
३.५४.९दमयन्ती ततो रङ्गं प्रविवेश शुभानना
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च
३.५४.१०तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्
तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम्
३.५४.११ततः संकीर्त्यमानेषु राज्ञां नामसु भारत
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव
३.५४.१२तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्
संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम्
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्
३.५४.१३सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्
३.५४.१४एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता
श्रुतानि देवलिङ्गानि चिन्तयामास भारत
३.५४.१५देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये
३.५४.१६सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः
शरणं प्रति देवानां प्राप्तकालममन्यत
३.५४.१७वाचा च मनसा चैव नमस्कारं प्रयुज्य सा
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्
३.५४.१८हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे
३.५४.१९वाचा च मनसा चैव यथा नाभिचराम्यहम्
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे
३.५४.२०यथा देवैः स मे भर्ता विहितो निषधाधिपः
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे
३.५४.२१स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्
३.५४.२२निशम्य दमयन्त्यास्तत्करुणं परिदेवितम्
निश्चयं परमं तथ्यमनुरागं च नैषधे
३.५४.२३मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे
३.५४.२४सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्
३.५४.२५छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः
३.५४.२६सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत
नैषधं वरयामास भैमी धर्मेण भारत
३.५४.२७विलज्जमाना वस्त्रान्ते जग्राहायतलोचना
स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम्
वरयामास चैवैनं पतित्वे वरवर्णिनी
३.५४.२८ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः
देवैर्महर्षिभिश्चैव साधु साध्विति भारत
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्
३.५४.२९वृते तु नैषधे भैम्या लोकपाला महौजसः
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः
३.५४.३०प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः
३.५४.३१अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः
३.५४.३२यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्
अपांपतिरपां भावं यत्र वाञ्छति नैषधः
३.५४.३३स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः
३.५४.३४पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः
दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम्
३.५४.३५अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः
रेमे सह तया राजा शच्येव बलवृत्रहा
३.५४.३६अतीव मुदितो राजा भ्राजमानोंऽशुमानिव
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्
३.५४.३७ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः
अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः
३.५४.३८पुनश्च रमणीयेषु वनेषूपवनेषु च
दमयन्त्या सह नलो विजहारामरोपमः
३.५४.३९एवं स यजमानश्च विहरंश्च नराधिपः
ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः