३.५८.१बृहदश्व उवाच
३.५८.२ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः
पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन
३.५८.३हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव
३.५८.४शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे
३.५८.५पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना
व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्
३.५८.६ततः पुष्करमालोक्य नलः परममन्युमान्
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः
३.५८.७एकवासा असंवीतः सुहृच्छोकविवर्धनः
निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम्
३.५८.८दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात्
स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत्
३.५८.९पुष्करस्तु महाराज घोषयामास वै पुरे
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम
३.५८.१०पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च
पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर
३.५८.११स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः
त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन्
३.५८.१२क्षुधा संपीड्यमानस्तु नलो बहुतिथेऽहनि
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्
३.५८.१३स चिन्तयामास तदा निषधाधिपतिर्बली
अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति
३.५८.१४ततस्तानन्तरीयेण वाससा समवास्तृणोत्
तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा
३.५८.१५उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम्
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्
३.५८.१६वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः
आगता न हि नः प्रीतिः सवाससि गते त्वयि
३.५८.१७तान्समीक्ष्य गतानक्षानात्मानं च विवाससम्
पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत्
३.५८.१८येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते
प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः
३.५८.१९येषां कृते न सत्कारमकुर्वन्मयि नैषधाः
त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे
३.५८.२०वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः
३.५८.२१एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्
३.५८.२२एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा
आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः
३.५८.२३एष पन्था विदर्भाणामयं गच्छति कोसलान्
अतः परं च देशोऽयं दक्षिणे दक्षिणापथः
३.५८.२४ततः सा बाष्पकलया वाचा दुःखेन कर्शिता
उवाच दमयन्ती तं नैषधं करुणं वचः
३.५८.२५उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः
तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः
३.५८.२६हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम्
कथमुत्सृज्य गच्छेयमहं त्वां विजने वने
३.५८.२७श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्
वने घोरे महाराज नाशयिष्यामि ते क्लमम्
३.५८.२८न च भार्यासमं किंचिद्विद्यते भिषजां मतम्
औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते
३.५८.२९नल उवाच
३.५८.३०एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्
३.५८.३१न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे
त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते
३.५८.३२दमयन्त्युवाच
३.५८.३३यदि मां त्वं महाराज न विहातुमिहेच्छसि
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते
३.५८.३४अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि
चेतसा त्वपकृष्टेन मां त्यजेथा महापते
३.५८.३५पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम
अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ
३.५८.३६यदि चायमभिप्रायस्तव राजन्व्रजेदिति
सहितावेव गच्छावो विदर्भान्यदि मन्यसे
३.५८.३७विदर्भराजस्तत्र त्वां पूजयिष्यति मानद
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे