३. वनपर्व
३.६२.१बृहदश्व उवाच

३.६२.२सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा
अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा

३.६२.३अथ काले बहुतिथे वने महति दारुणे
तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत्

३.६२.४ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्
बहुमूलफलोपेतं नानापक्षिगणैर्वृतम्

३.६२.५तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम्
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः

३.६२.६संमते सार्थवाहस्य विविशुर्वनमुत्तमम्
उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम्

३.६२.७अथार्धरात्रसमये निःशब्दस्तिमिते तदा
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्
पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम्

३.६२.८मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्
सुप्तं ममर्द सहसा चेष्टमानं महीतले

३.६२.९हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः
वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात्
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः

३.६२.१०गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम्
भयार्तं धावमानं तत्परस्परहतं तदा

३.६२.११घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले
वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च
तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम्

३.६२.१२अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा
वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम्
भ्रातरं पितरं पुत्रं सखायं च जनाधिप

३.६२.१३अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम्
योऽपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः
हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु

३.६२.१४प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम्
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्

३.६२.१५यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता
न ह्यदैवकृतं किंचिन्नराणामिह विद्यते

३.६२.१६न च मे बालभावेऽपि किंचिद्व्यपकृतं कृतम्
कर्मणा मनसा वाचा यदिदं दुःखमागतम्

३.६२.१७मन्ये स्वयंवरकृते लोकपालाः समागताः
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम्

३.६२.१८एवमादीनि दुःखानि सा विलप्य वराङ्गना
हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः
अगच्छद्राजशार्दूल दुःखशोकपरायणा

३.६२.१९गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत्
सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः
वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम्

३.६२.२०तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम्
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः

३.६२.२१प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा
अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात्

३.६२.२२सा तैः परिवृतागच्छत्समीपं राजवेश्मनः
तां प्रासादगतापश्यद्राजमाता जनैर्वृताम्

३.६२.२३सा जनं वारयित्वा तं प्रासादतलमुत्तमम्
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत

३.६२.२४एवमप्यसुखाविष्टा बिभर्षि परमं वपुः
भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा

३.६२.२५न हि ते मानुषं रूपं भूषणैरपि वर्जितम्
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे

३.६२.२६तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्
मानुषीं मां विजानीहि भर्तारं समनुव्रताम्

३.६२.२७सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्
फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम्

३.६२.२८असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः
भर्तारमपि तं वीरं छायेवानपगा सदा

३.६२.२९तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने
द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान्

३.६२.३०तमेकवसनं वीरमुन्मत्तमिव विह्वलम्
आश्वासयन्ती भर्तारमहमन्वगमं वनम्

३.६२.३१स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे
क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत्

३.६२.३२तमेकवसनं नग्नमुन्मत्तं गतचेतसम्
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा

३.६२.३३ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम्

३.६२.३४तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः
न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम्

३.६२.३५तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु
राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम्

३.६२.३६वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम

३.६२.३७अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः
इहैव वसती भद्रे भर्तारमुपलप्स्यसे

३.६२.३८राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्
समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि

३.६२.३९उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्
न चाहं पुरुषानन्यान्संभाषेयं कथंचन

३.६२.४०प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्

३.६२.४१यद्येवमिह कर्तव्यं वसाम्यहमसंशयम्
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित्

३.६२.४२तां प्रहृष्टेन मनसा राजमातेदमब्रवीत्
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम्

३.६२.४३एवमुक्त्वा ततो भैमीं राजमाता विशां पते
उवाचेदं दुहितरं सुनन्दां नाम भारत

३.६२.४४सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्
एतया सह मोदस्व निरुद्विग्नमनाः स्वयम्