३. वनपर्व
३.६१.१बृहदश्व उवाच

३.६१.२सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्

३.६१.३सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम्
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्

३.६१.४शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः
अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः

३.६१.५जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्
काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम्

३.६१.६बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्
प्रियालतालखर्जूरहरीतकबिभीतकैः

३.६१.७नानाधातुशतैर्नद्धान्विविधानपि चाचलान्
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः
नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान्

३.६१.८सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्
पल्वलानि तडागानि गिरिकूटानि सर्वशः
सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान्

३.६१.९यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान्

३.६१.१०तेजसा यशसा स्थित्या श्रिया च परया युता
वैदर्भी विचरत्येका नलमन्वेषती तदा

३.६१.११नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता

३.६१.१२विदर्भतनया राजन्विललाप सुदुःखिता
भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता

३.६१.१३दमयन्त्युवाच

३.६१.१४सिंहोरस्क महाबाहो निषधानां जनाधिप
क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने

३.६१.१५अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे

३.६१.१६यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ

३.६१.१७यथोक्तं विहगैर्हंसैः समीपे तव भूमिप
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि

३.६१.१८चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः
स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः

३.६१.१९तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः

३.६१.२०हा वीर ननु नामाहमिष्टा किल तवानघ
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे

३.६१.२१भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः
अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि

३.६१.२२न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप

३.६१.२३उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप
ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे

३.६१.२४कृशां दीनां विवर्णां च मलिनां वसुधाधिप
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्

३.६१.२५यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन
न मानयसि मानार्ह रुदतीमरिकर्शन

३.६१.२६महाराज महारण्ये मामिहैकाकिनीं सतीम्
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे

३.६१.२७कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम्
नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते

३.६१.२८शयानमुपविष्टं वा स्थितं वा निषधाधिप
प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन

३.६१.२९कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता
कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः

३.६१.३०को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम्
अभिरूपं महात्मानं परव्यूहविनाशनम्

३.६१.३१यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्

३.६१.३२अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः
शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता

३.६१.३३भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः
विदर्भराजतनयां दमयन्तीति विद्धि माम्

३.६१.३४निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम्
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः

३.६१.३५अथ वारण्यनृपते नलं यदि न शंससि
मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम्

३.६१.३६श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम्
यात्येतां मृष्टसलिलामापगां सागरंगमाम्

३.६१.३७इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः
विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः

३.६१.३८नानाधातुसमाकीर्णं विविधोपलभूषितम्
अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम्

३.६१.३९सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्
पतत्रिभिर्बहुविधैः समन्तादनुनादितम्

३.६१.४०किंशुकाशोकबकुलपुंनागैरुपशोभितम्
सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम्
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति

३.६१.४१भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर

३.६१.४२प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम्
राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम्

३.६१.४३राजा विदर्भाधिपतिः पिता मम महारथः
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता

३.६१.४४राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः

३.६१.४५ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः
शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः

३.६१.४६सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्

३.६१.४७निषधेषु महाशैल श्वशुरो मे नृपोत्तमः
सुगृहीतनामा विख्यातो वीरसेन इति स्म ह

३.६१.४८तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह

३.६१.४९नलो नामारिदमनः पुण्यश्लोक इति श्रुतः
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित्

३.६१.५०यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम्

३.६१.५१त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्
अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम्

३.६१.५२खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः

३.६१.५३गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः
विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः

३.६१.५४किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम्
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्

३.६१.५५वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना

३.६१.५६कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम्
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्

३.६१.५७वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः
आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम्

३.६१.५८इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी
दमयन्ती ततो भूयो जगाम दिशमुत्तराम्

३.६१.५९सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना
तापसारण्यमतुलं दिव्यकाननदर्शनम्

३.६१.६०वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्
नियतैः संयताहारैर्दमशौचसमन्वितैः

३.६१.६१अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः

३.६१.६२वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्

३.६१.६३सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम्
शाखामृगगणैश्चैव तापसैश्च समन्वितम्

३.६१.६४सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना
वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी

३.६१.६५सा विवेशाश्रमपदं वीरसेनसुतप्रिया
योषिद्रत्नं महाभागा दमयन्ती मनस्विनी

३.६१.६६साभिवाद्य तपोवृद्धान्विनयावनता स्थिता
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा

३.६१.६७पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे

३.६१.६८तानुवाच वरारोहा कच्चिद्भगवतामिह
तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः
कुशलं वो महाभागाः स्वधर्मचरणेषु च

३.६१.६९तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी
ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि

३.६१.७०दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः

३.६१.७१अस्यारण्यस्य महती देवता वा महीभृतः
अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते

३.६१.७२साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता
न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम्

३.६१.७३मानुषीं मां विजानीत यूयं सर्वे तपोधनाः
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः

३.६१.७४विदर्भेषु महीपालो भीमो नाम महाद्युतिः
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः

३.६१.७५निषधाधिपतिर्धीमान्नलो नाम महायशाः
वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः

३.६१.७६देवताभ्यर्चनपरो द्विजातिजनवत्सलः
गोप्ता निषधवंशस्य महाभागो महाद्युतिः

३.६१.७७सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः

३.६१.७८नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा

३.६१.७९आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः
सपत्नानां मृधे हन्ता रविसोमसमप्रभः

३.६१.८०स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः
आहूय पृथिवीपालः सत्यधर्मपरायणः
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च

३.६१.८१तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै
दमयन्तीति विख्यातां भर्तृदर्शनलालसाम्

३.६१.८२सा वनानि गिरींश्चैव सरांसि सरितस्तथा
पल्वलानि च रम्याणि तथारण्यानि सर्वशः

३.६१.८३अन्वेषमाणा भर्तारं नलं रणविशारदम्
महात्मानं कृतास्त्रं च विचरामीह दुःखिता

३.६१.८४कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः

३.६१.८५यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम्
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्

३.६१.८६यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्

३.६१.८७को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता

३.६१.८८एवं विलपतीमेकामरण्ये भीमनन्दिनीम्
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः

३.६१.८९उदर्कस्तव कल्याणि कल्याणो भविता शुभे
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्

३.६१.९०निषधानामधिपतिं नलं रिपुनिघातिनम्
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्

३.६१.९१विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्
तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम्

३.६१.९२द्विषतां भयकर्तारं सुहृदां शोकनाशनम्
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्

३.६१.९३एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा

३.६१.९४सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा

३.६१.९५किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत्
क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम्

३.६१.९६क्व सा पुण्यजला रम्या नानाद्विजनिषेविता
नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः

३.६१.९७ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
भर्तृशोकपरा दीना विवर्णवदनाभवत्

३.६१.९८सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा
विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः

३.६१.९९उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा
पल्लवापीडितं हृद्यं विहंगैरनुनादितम्

३.६१.१००अहो बतायमगमः श्रीमानस्मिन्वनान्तरे
आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव

३.६१.१०१विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्

३.६१.१०२नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्
निषधानामधिपतिं दृष्टवानसि मे प्रियम्

३.६१.१०३एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्
व्यसनेनार्दितं वीरमरण्यमिदमागतम्

३.६१.१०४यथा विशोका गच्छेयमशोकनग तत्कुरु
सत्यनामा भवाशोक मम शोकविनाशनात्

३.६१.१०५एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह
जगाम दारुणतरं देशं भैमी वराङ्गना

३.६१.१०६सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः

३.६१.१०७कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान्
ददर्श सा भीमसुता पतिमन्वेषती तदा

३.६१.१०८गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्

३.६१.१०९उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्

३.६१.११०प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्
कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम्

३.६१.१११सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी
उपसर्प्य वरारोहा जनमध्यं विवेश ह

३.६१.११२उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा

३.६१.११३तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः
केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः

३.६१.११४प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे
चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत

३.६१.११५कासि कस्यासि कल्याणि किं वा मृगयसे वने
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी

३.६१.११६वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः

३.६१.११७यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना
सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते

३.६१.११८यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्
तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः

३.६१.११९तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा
प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता
सार्थवाहं च सार्थं च जना ये चात्र केचन

३.६१.१२०यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्

३.६१.१२१विदर्भराण्मम पिता भर्ता राजा च नैषधः
नलो नाम महाभागस्तं मार्गाम्यपराजितम्

३.६१.१२२यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्
नलं पार्थिवशार्दूलममित्रगणसूदनम्

३.६१.१२३तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः

३.६१.१२४अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते
मनुष्यं नलनामानं न पश्यामि यशस्विनि

३.६१.१२५कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि
पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु

३.६१.१२६साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः
क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ

३.६१.१२७सार्थवाह उवाच

३.६१.१२८सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे