३. वनपर्व
३.६७.१दमयन्त्युवाच

३.६७.२मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते
नरवीरस्य वै तस्य नलस्यानयने यत

३.६७.३बृहदश्व उवाच

३.६७.४दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता
बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत्

३.६७.५तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह

३.६७.६ततो भीमं महाराज भार्या वचनमब्रवीत्
दमयन्ती तव सुता भर्तारमनुशोचति

३.६७.७अपकृष्य च लज्जां मां स्वयमुक्तवती नृप
प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने

३.६७.८तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः
प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने

३.६७.९ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः
दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन्

३.६७.१०अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः
ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः

३.६७.११क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय

३.६७.१२सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता

३.६७.१३तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव
प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च

३.६७.१४एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि
वायुना धूयमानो हि वनं दहति पावकः

३.६७.१५भर्तव्या रक्षणीया च पत्नी हि पतिना सदा
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव

३.६७.१६ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्

३.६७.१७स कुरुष्व महेष्वास दयां मयि नरर्षभ
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम्

३.६७.१८एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन
स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते

३.६७.१९यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः
तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः

३.६७.२०यथा च वो न जानीयाच्चरतो भीमशासनात्
पुनरागमनं चैव तथा कार्यमतन्द्रितैः

३.६७.२१यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत्
यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम्

३.६७.२२एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम्
नलं मृगयितुं राजंस्तथा व्यसनिनं तदा

३.६७.२३ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान्
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः

३.६७.२४तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते
श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम्