३. वनपर्व
३.६६.१सुदेव उवाच

३.६६.२विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता

३.६६.३राजा तु नैषधो नाम वीरसेनसुतो नलः
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः

३.६६.४स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः
दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित्

३.६६.५ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्
सेयमासादिता बाला तव पुत्रनिवेशने

३.६६.६अस्या रूपेण सदृशी मानुषी नेह विद्यते
अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया

३.६६.७मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः

३.६६.८प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते
न चास्या नश्यते रूपं वपुर्मलसमाचितम्
असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम्

३.६६.९अनेन वपुषा बाला पिप्लुनानेन चैव ह
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा

३.६६.१०बृहदश्व उवाच

३.६६.११तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्

३.६६.१२स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत
दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः

३.६६.१३पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्

३.६६.१४भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता
अहं च तव माता च राजन्यस्य महात्मनः
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने

३.६६.१५भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे

३.६६.१६यथैव ते पितुर्गेहं तथेदमपि भामिनि
यथैव हि ममैश्वर्यं दमयन्ति तथा तव

३.६६.१७तां प्रहृष्टेन मनसा दमयन्ती विशां पते
अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत्

३.६६.१८अज्ञायमानापि सती सुखमस्म्युषितेह वै
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया

३.६६.१९सुखात्सुखतरो वासो भविष्यति न संशयः
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि

३.६६.२०दारकौ च हि मे नीतौ वसतस्तत्र बालकौ
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ

३.६६.२१यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश

३.६६.२२बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप
गुप्तां बलेन महता पुत्रस्यानुमते ततः

३.६६.२३प्रस्थापयद्राजमाता श्रीमता नरवाहिना
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्

३.६६.२४ततः सा नचिरादेव विदर्भानगमच्छुभा
तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत्

३.६६.२५सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ
मातरं पितरं चैव सर्वं चैव सखीजनम्

३.६६.२६देवताः पूजयामास ब्राह्मणांश्च यशस्विनी
विधिना परेण कल्याणी दमयन्ती विशां पते

३.६६.२७अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च

३.६६.२८सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्