३. वनपर्व
३.६९.१बृहदश्व उवाच

३.६९.२श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः
सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत

३.६९.३विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम्
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक

३.६९.४एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः

३.६९.५दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता
अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान्

३.६९.६नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी
मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना

३.६९.७स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः
स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा

३.६९.८न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः
यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम्
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्

३.६९.९इति निश्चित्य मनसा बाहुको दीनमानसः
कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम्

३.६९.१०प्रतिजानामि ते सत्यं गमिष्यसि नराधिप
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप

३.६९.११ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः
अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया

३.६९.१२स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्

३.६९.१३तेजोबलसमायुक्तान्कुलशीलसमन्वितान्
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून्
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः

३.६९.१४दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम्

३.६९.१५कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम
महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः

३.६९.१६बाहुक उवाच

३.६९.१७एते हया गमिष्यन्ति विदर्भान्नात्र संशयः
अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते

३.६९.१८ऋतुपर्ण उवाच

३.६९.१९त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक
यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय

३.६९.२०बृहदश्व उवाच

३.६९.२१ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्
योजयामास कुशलो जवयुक्तान्रथे नरः

३.६९.२२ततो युक्तं रथं राजा समारोहत्त्वरान्वितः
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः

३.६९.२३ततो नरवरः श्रीमान्नलो राजा विशां पते
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्

३.६९.२४रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्

३.६९.२५ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः
समुत्पेतुरिवाकाशं रथिनं मोहयन्निव

३.६९.२६तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः
अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ

३.६९.२७रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्

३.६९.२८किं नु स्यान्मातलिरयं देवराजस्य सारथिः
तथा हि लक्षणं वीरे बाहुके दृश्यते महत्

३.६९.२९शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित्
मानुषं समनुप्राप्तो वपुः परमशोभनम्

३.६९.३०उताहोस्विद्भवेद्राजा नलः परपुरंजयः
सोऽयं नृपतिरायात इत्येवं समचिन्तयत्

३.६९.३१अथ वा यां नलो वेद विद्यां तामेव बाहुकः
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च

३.६९.३२अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च
नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति

३.६९.३३प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः

३.६९.३४भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति
प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः

३.६९.३५वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः

३.६९.३६एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत्
हृदयेन महाराज पुण्यश्लोकस्य सारथिः

३.६९.३७ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम्
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः

३.६९.३८बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत्
परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह