३.७.१वैशंपायन उवाच
३.७.२गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत
३.७.३स सभाद्वारमागम्य विदुरस्मारमोहितः
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः
३.७.४स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्
समीपोपस्थितं राजा संजयं वाक्यमब्रवीत्
३.७.५भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः
तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे
३.७.६तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै
इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत्
३.७.७पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः
भ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत्
३.७.८गच्छ संजय जानीहि भ्रातरं विदुरं मम
यदि जीवति रोषेण मया पापेन निर्धुतः
३.७.९न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन
व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना
३.७.१०स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्
न जह्याज्जीवितं प्राज्ञस्तं गच्छानय संजय
३.७.११तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च
संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम्
३.७.१२सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्
३.७.१३विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः
भ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम्
३.७.१४युधिष्ठिरमथाभ्येत्य पूजयामास संजयः
भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत
३.७.१५राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः
३.७.१६राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः
तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम्
३.७.१७सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्
नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद
३.७.१८एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्
३.७.१९तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान्
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ
३.७.२०अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः
३.७.२१सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह
क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा
३.७.२२विदुर उवाच
३.७.२३क्षान्तमेव मया राजन्गुरुर्नः परमो भवान्
तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः
३.७.२४भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः
दीनाभिपातिनो राजन्नात्र कार्या विचारणा
३.७.२५पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव
दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति
३.७.२६वैशंपायन उवाच
३.७.२७अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्