३. वनपर्व
३.७१.१बृहदश्व उवाच

३.७१.२ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्

३.७१.३स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्
नादयन्रथघोषेण सर्वाः सोपदिशो दश

३.७१.४ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः
श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ

३.७१.५दमयन्ती च शुश्राव रथघोषं नलस्य तम्
यथा मेघस्य नदतो गम्भीरं जलदागमे

३.७१.६नलेन संगृहीतेषु पुरेव नलवाजिषु
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः

३.७१.७प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः
हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः

३.७१.८ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा
प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह

३.७१.९दमयन्त्युवाच

३.७१.१०यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम्
मम ह्लादयते चेतो नल एष महीपतिः

३.७१.११अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि
असंख्येयगुणं वीरं विनशिष्याम्यसंशयम्

३.७१.१२यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्
प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम्

३.७१.१३यदि मां मेघनिर्घोषो नोपगच्छति नैषधः
अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम्

३.७१.१४यदि मां सिंहविक्रान्तो मत्तवारणवारणः
नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम्

३.७१.१५न स्मराम्यनृतं किंचिन्न स्मराम्यनुपाकृतम्
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः

३.७१.१६प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः
रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः

३.७१.१७गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम्

३.७१.१८बृहदश्व उवाच

३.७१.१९एवं विलपमाना सा नष्टसंज्ञेव भारत
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया

३.७१.२०ततो मध्यमकक्षायां ददर्श रथमास्थितम्
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम्

३.७१.२१ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात्
हयांस्तानवमुच्याथ स्थापयामासतू रथम्

३.७१.२२सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः
उपतस्थे महाराज भीमं भीमपराक्रमम्

३.७१.२३तं भीमः प्रतिजग्राह पूजया परया ततः
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति

३.७१.२४किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम्

३.७१.२५ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः
राजानं राजपुत्रं वा न स्म पश्यति कंचन
नैव स्वयंवरकथां न च विप्रसमागमम्

३.७१.२६ततो विगणयन्राजा मनसा कोसलाधिपः
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः

३.७१.२७राजापि च स्मयन्भीमो मनसाभिविचिन्तयत्
अधिकं योजनशतं तस्यागमनकारणम्

३.७१.२८ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्

३.७१.२९नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्
विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः

३.७१.३०स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत्

३.७१.३१ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे
बाहुको रथमास्थाय रथशालामुपागमत्

३.७१.३२स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत्

३.७१.३३दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम्
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम्

३.७१.३४चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः
नलस्येव महानासीन्न च पश्यामि नैषधम्

३.७१.३५वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता
तेनास्य रथनिर्घोषो नलस्येव महानभूत्

३.७१.३६आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा
ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते

३.७१.३७एवं वितर्कयित्वा तु दमयन्ती विशां पते
दूतीं प्रस्थापयामास नैषधान्वेषणे नृप