३. वनपर्व
३.७३.१बृहदश्व उवाच

३.७३.२दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्

३.७३.३गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय

३.७३.४यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि
तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम्

३.७३.५न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि
याचते न जलं देयं सम्यगत्वरमाणया

३.७३.६एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम

३.७३.७दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी
निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत्

३.७३.८सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्
निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम्

३.७३.९केशिन्युवाच

३.७३.१०दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित्
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः

३.७३.११ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित्
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम्

३.७३.१२ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः
प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम्

३.७३.१३तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा

३.७३.१४ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः
तृणमुष्टिं समादाय आविध्यैनं समादधत्

३.७३.१५अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता

३.७३.१६अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे

३.७३.१७छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्

३.७३.१८यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ

३.७३.१९भूय एव सुगन्धीनि हृषितानि भवन्ति च
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता

३.७३.२०बृहदश्व उवाच

३.७३.२१दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्

३.७३.२२सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्

३.७३.२३पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्
महानसाच्छृतं मांसं समादायैहि भामिनि

३.७३.२४सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च
अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन

३.७३.२५सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा
प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता

३.७३.२६वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः
मिथुनं प्रेषयामास केशिन्या सह भारत

३.७३.२७इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्

३.७३.२८बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ
भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह

३.७३.२९नैषधो दर्शयित्वा तु विकारमसकृत्तदा
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्

३.७३.३०इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः
ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्

३.७३.३१बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः
वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते