३.७६.१बृहदश्व उवाच
३.७६.२अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम्
३.७६.३ततोऽभिवादयामास प्रयतः श्वशुरं नलः
तस्यानु दमयन्ती च ववन्दे पितरं शुभा
३.७६.४तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा
यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः
नलेन सहितां तत्र दमयन्तीं पतिव्रताम्
३.७६.५तामर्हणां नलो राजा प्रतिगृह्य यथाविधि
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत्
३.७६.६ततो बभूव नगरे सुमहान्हर्षनिस्वनः
जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम्
३.७६.७अशोभयच्च नगरं पताकाध्वजमालिनम्
सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा
३.७६.८द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः
अर्चितानि च सर्वाणि देवतायतनानि च
३.७६.९ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम्
दमयन्त्या समायुक्तं जहृषे च नराधिपः
३.७६.१०तमानाय्य नलो राजा क्षमयामास पार्थिवम्
स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः
३.७६.११स सत्कृतो महीपालो नैषधं विस्मयान्वितः
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत
३.७६.१२कच्चित्तु नापराधं ते कृतवानस्मि नैषध
अज्ञातवासं वसतो मद्गृहे निषधाधिप
३.७६.१३यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित्
मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि
३.७६.१४नल उवाच
३.७६.१५न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव
३.७६.१६पूर्वं ह्यसि सखा मेऽसि संबन्धी च नराधिप
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि
३.७६.१७सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि
न तथा स्वगृहे राजन्यथा तव गृहे सदा
३.७६.१८इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव
३.७६.१९बृहदश्व उवाच
३.७६.२०एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
३.७६.२१ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः
सूतमन्यमुपादाय ययौ स्वपुरमेव हि
३.७६.२२ऋतुपर्णे प्रतिगते नलो राजा विशां पते
नगरे कुण्डिने कालं नातिदीर्घमिवावसत्