३.७८.१बृहदश्व उवाच
३.७८.२प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे
महत्या सेनया राजा दमयन्तीमुपानयत्
३.७८.३दमयन्तीमपि पिता सत्कृत्य परवीरहा
प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः
३.७८.४आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः
वर्तयामास मुदितो देवराडिव नन्दने
३.७८.५तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः
३.७८.६ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात्
३.७८.७दुःखमेतादृशं प्राप्तो नलः परपुरंजयः
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ
३.७८.८एकाकिनैव सुमहन्नलेन पृथिवीपते
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः
३.७८.९त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन्
३.७८.१०ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना
३.७८.११इतिहासमिमं चापि कलिनाशनमुच्यते
शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते
३.७८.१२अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा
तस्याये च व्यये चैव समाश्वसिहि मा शुचः
३.७८.१३ये चेदं कथयिष्यन्ति नलस्य चरितं महत्
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति
३.७८.१४इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्
पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम्
अरोगः प्रीतिमांश्चैव भविष्यति न संशयः
३.७८.१५भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव
३.७८.१६वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते
३.७८.१७वैशंपायन उवाच
३.७८.१८ततो हृष्टमना राजा बृहदश्वमुवाच ह
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः
३.७८.१९ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः
३.७८.२०बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम्
वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम्
३.७८.२१ब्राह्मणेभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः
तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः
३.७८.२२इति पार्थो महाबाहुर्दुरापं तप आस्थितः
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति
३.७८.२३यथा धनंजयः पार्थस्तपस्वी नियतव्रतः
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव
३.७८.२४तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्
३.७८.२५दह्यमानेन तु हृदा शरणार्थी महावने
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः