३.७९.१जनमेजय उवाच
३.७९.२भगवन्काम्यकात्पार्थे गते मे प्रपितामहे
पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम्
३.७९.३स हि तेषां महेष्वासो गतिरासीदनीकजित्
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे
३.७९.४तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना
विनाभूता वने वीराः कथमासन्पितामहाः
३.७९.५वैशंपायन उवाच
३.७९.६गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः
३.७९.७आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः
३.७९.८वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा
कुबेरेण यथा हीनं वनं चैत्ररथं तथा
३.७९.९तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा
३.७९.१०ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान्
३.७९.११नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः
विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन्
३.७९.१२एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः
अहृष्टमनसः सर्वे गते राजन्धनंजये
३.७९.१३अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम्
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत्
३.७९.१४योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्
३.७९.१५बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम्
न तथा रमणीयं मे तमृते सव्यसाचिनम्
३.७९.१६नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम्
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे
३.७९.१७यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः
न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम्
३.७९.१८तथा लालप्यमानां तां निशम्य परवीरहा
भीमसेनो महाराज द्रौपदीमिदमब्रवीत्
३.७९.१९मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे
तन्मे प्रीणाति हृदयममृतप्राशनोपमम्
३.७९.२०यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ
मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ
३.७९.२१निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ
तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम्
३.७९.२२यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा
सुराणामपि यत्तानां पृतनासु न बिभ्यति
३.७९.२३यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
३.७९.२४तमृते फल्गुनं वीरं न लभे काम्यके धृतिम्
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्
३.७९.२५नकुल उवाच
३.७९.२६य उदीचीं दिशं गत्वा जित्वा युधि महाबलान्
गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः
३.७९.२७राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः
प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ
३.७९.२८तमृते भीमधन्वानं भीमादवरजं वने
कामये काम्यके वासं नेदानीममरोपमम्
३.७९.२९सहदेव उवाच
३.७९.३०यो धनानि च कन्याश्च युधि जित्वा महारथान्
आजहार पुरा राज्ञे राजसूये महाक्रतौ
३.७९.३१यः समेतान्मृधे जित्वा यादवानमितद्युतिः
सुभद्रामाजहारैको वासुदेवस्य संमते
३.७९.३२तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने
हृदयं मे महाराज न शाम्यति कदाचन
३.७९.३३वनादस्माद्विवासं तु रोचयेऽहमरिंदम
न हि नस्तमृते वीरं रमणीयमिदं वनम्