३.८१.१पुलस्त्य उवाच
३.८१.२ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः
३.८१.३कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते
३.८१.४तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
३.८१.५गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत
३.८१.६मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति
३.८१.७गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
३.८१.८ततो मचक्रुकं राजन्द्वारपालं महाबलम्
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्
३.८१.९ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम्
सततं नाम राजेन्द्र यत्र संनिहितो हरिः
३.८१.१०तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
३.८१.११ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
३.८१.१२पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत्
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप
दशाश्वमेधिके स्नात्वा तदेव लभते फलम्
३.८१.१३सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम्
अग्निष्टोममवाप्नोति नागलोकं च विन्दति
३.८१.१४ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम्
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
३.८१.१५ततः पञ्चनदं गत्वा नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
अश्विनोस्तीर्थमासाद्य रूपवानभिजायते
३.८१.१६ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत्
तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत्
३.८१.१७ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत्
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः
३.८१.१८एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह
पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः
३.८१.१९ततो मुञ्जवटं नाम महादेवस्य धीमतः
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात्
३.८१.२०तत्रैव च महाराज यक्षी लोकपरिश्रुता
तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात्
३.८१.२१कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः
३.८१.२२संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः
जामदग्न्येन रामेण आहृते वै महात्मना
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति
३.८१.२३ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप
यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा
क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः
३.८१.२४पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्
पितरस्तर्पिताः सर्वे तथैव च पितामहाः
ततस्ते पितरः प्रीता राममूचुर्महीपते
३.८१.२५राम राम महाभाग प्रीताः स्म तव भार्गव
अनया पितृभक्त्या च विक्रमेण च ते विभो
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते
३.८१.२६एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान्
३.८१.२७भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः
३.८१.२८यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम्
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
३.८१.२९एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः
३.८१.३०तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया
३.८१.३१ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः
३.८१.३२ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम्
ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम्
३.८१.३३एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा
आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा
३.८१.३४एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम्
३.८१.३५वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके
३.८१.३६कायशोधनमासाद्य तीर्थं भरतसत्तम
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः
शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान्
३.८१.३७ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना
३.८१.३८लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम्
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान्
श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम्
३.८१.३९कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा
कपिलानां सहस्रस्य फलं विन्दति मानवः
३.८१.४०सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः
अर्चयित्वा पितॄन्देवानुपवासपरायणः
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति
३.८१.४१गवांभवनमासाद्य तीर्थसेवी यथाक्रमम्
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्
३.८१.४२शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम्
३.८१.४३ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम्
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
३.८१.४४ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्
३.८१.४५ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम्
यत्र संनिहिता नित्यं पितरो दैवतैः सह
३.८१.४६तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
अश्वमेधमवाप्नोति पितृलोकं च गच्छति
३.८१.४७ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम्
कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते
३.८१.४८मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत
प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम्
३.८१.४९ततः शीतवनं गच्छेन्नियतो नियताशनः
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम्
३.८१.५०पुनाति दर्शनादेव दण्डेनैकं नराधिप
केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत
३.८१.५१तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम्
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः
३.८१.५२श्वानलोमापनयने तीर्थे भरतसत्तम
प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः
३.८१.५३पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम्
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम्
३.८१.५४ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः
अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः
३.८१.५५तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
३.८१.५६मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते
आपगा नाम विख्याता नदी सिद्धनिषेविता
३.८१.५७श्यामाकभोजनं तत्र यः प्रयच्छति मानवः
देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत्
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता
३.८१.५८तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत्
३.८१.५९ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम्
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत
३.८१.६०तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव
केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः
३.८१.६१ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते
३.८१.६२कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम्
अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः
३.८१.६३ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम्
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्
लभते सर्वकामान्हि स्वर्गलोकं च गच्छति
३.८१.६४तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन
रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते
इलास्पदं च तत्रैव तीर्थं भरतसत्तम
३.८१.६५तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति
३.८१.६६किंदाने च नरः स्नात्वा किंजप्ये च महीपते
अप्रमेयमवाप्नोति दानं जप्यं च भारत
३.८१.६७कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः
३.८१.६८सरकस्य तु पूर्वेण नारदस्य महात्मनः
तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम्
३.८१.६९तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान्
३.८१.७०शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत्
तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत्
३.८१.७१ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र वैतरणी पुण्या नदी पापप्रमोचनी
३.८१.७२तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम्
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्
३.८१.७३ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम्
यत्र देवाः सदा राजन्फलकीवनमाश्रिताः
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम्
३.८१.७४दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत
३.८१.७५तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम
गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः
३.८१.७६पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः
राजसूयमवाप्नोति ऋषिलोकं च गच्छति
३.८१.७७ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना
३.८१.७८व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः
३.८१.७९ततो व्यासवनं गच्छेन्नियतो नियताशनः
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्
३.८१.८०गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः
तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः
स देव्या समनुज्ञातो गोसहस्रफलं लभेत्
३.८१.८१कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत
स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते
३.८१.८२ततो व्यासस्थली नाम यत्र व्यासेन धीमता
पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः
३.८१.८३कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा
अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत्
३.८१.८४किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च
गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह
३.८१.८५अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात्
३.८१.८६मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः
शूलपाणिं महादेवमश्वमेधफलं लभेत्
३.८१.८७देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम्
३.८१.८८तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम्
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात्
३.८१.८९कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः
पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम्
तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते
३.८१.९०अमराणां ह्रदे स्नात्वा अमरेषु नराधिप
अमराणां प्रभावेन स्वर्गलोके महीयते
३.८१.९१शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत्
३.८१.९२श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
३.८१.९३ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह
ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा
३.८१.९४ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान्
३.८१.९५तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत्
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत्
३.८१.९६ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम्
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्
३.८१.९७ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम्
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्
३.८१.९८सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप
यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः
३.८१.९९पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम्
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्
३.८१.१००स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः
प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः
३.८१.१०१ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत्
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
३.८१.१०२ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि
३.८१.१०३ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत
३.८१.१०४अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव
३.८१.१०५ऋषिरुवाच
३.८१.१०६किं न पश्यसि मे देव कराच्छाकरसं स्रुतम्
यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः
३.८१.१०७पुलस्त्य उवाच
३.८१.१०८तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्
अहं वै विस्मयं विप्र न गच्छामीति पश्य माम्
३.८१.१०९एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ
३.८१.११०ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम्
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः
३.८१.१११नान्यं देवमहं मन्ये रुद्रात्परतरं महत्
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्
३.८१.११२त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम्
त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये
३.८१.११३देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया
त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ
३.८१.११४सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत्
३.८१.११५ऋषिरुवाच
३.८१.११६त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै
३.८१.११७पुलस्त्य उवाच
३.८१.११८ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा
३.८१.११९आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने
सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्
३.८१.१२०न तेषां दुर्लभं किंचिदिह लोके परत्र च
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः
३.८१.१२१ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम्
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
३.८१.१२२कार्त्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत
सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया
३.८१.१२३कपालमोचनं तीर्थं सर्वपापप्रमोचनम्
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते
३.८१.१२४अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ
अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत्
३.८१.१२५विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते
३.८१.१२६ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः
३.८१.१२७ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्
पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
३.८१.१२८अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना
३.८१.१२९तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत
अश्वमेधफलं चापि स्वर्गलोकं च गच्छति
३.८१.१३०पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम्
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्
३.८१.१३१उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्
३.८१.१३२गीतं सनत्कुमारेण व्यासेन च महात्मना
वेदे च नियतं राजनभिगच्छेत्पृथूदकम्
३.८१.१३३पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम
एतन्मेध्यं पवित्रं च पावनं च न संशयः
३.८१.१३४तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः
पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः
३.८१.१३५मधुस्रवं च तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
३.८१.१३६ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम्
सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम्
३.८१.१३७त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः
३.८१.१३८आसप्तमं कुलं चैव पुनाति भरतर्षभ
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह
विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा
३.८१.१३९व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः
३.८१.१४०क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ
चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने
३.८१.१४१समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा
येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात्
फलानि गोसहस्राणां चतुर्णां विन्दते च सः
३.८१.१४२ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम्
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते
३.८१.१४३उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत्
दानं वाप्युपवासो वा सहस्रगुणितं भवेत्
३.८१.१४४ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम्
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्
३.८१.१४५विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते
३.८१.१४६ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः
पुण्येन महता युक्तः सतां लोके महीयते
३.८१.१४७यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः
तमर्चयित्वा देवेशं गमनादेव सिध्यति
३.८१.१४८औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा
यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः
सेनापत्येन देवानामभिषिक्तो गुहस्तदा
३.८१.१४९औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः
सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते
३.८१.१५०स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति
३.८१.१५१ततो गच्छेदनरकं तीर्थसेवी नराधिप
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्
३.८१.१५२तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते
अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः
३.८१.१५३सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात्
३.८१.१५४तत्रैव च महाराज विश्वेश्वरमुमापतिम्
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः
३.८१.१५५नारायणं चाभिगम्य पद्मनाभमरिंदमम्
शोभमानो महाराज विष्णुलोकं प्रपद्यते
३.८१.१५६तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ
सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा
३.८१.१५७ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः
३.८१.१५८गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते
३.८१.१५९आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम्
गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम्
३.८१.१६०ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात्
३.८१.१६१बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः
बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः
३.८१.१६२सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः
त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप
३.८१.१६३इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप
अहोरात्रोपवासेन शक्रलोके महीयते
३.८१.१६४एकरात्रं समासाद्य एकरात्रोषितो नरः
नियतः सत्यवादी च ब्रह्मलोके महीयते
३.८१.१६५ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः
३.८१.१६६तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम्
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्
३.८१.१६७सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः
३.८१.१६८ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्
३.८१.१६९यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः
तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत्
सारस्वतीं गतिं चैव लभते नात्र संशयः
३.८१.१७०ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान्
त्रिरात्रोपोषितो राजन्नुपवासपरायणः
लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति
३.८१.१७१ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
मासि मासि समायान्ति पुण्येन महतान्विताः
३.८१.१७२संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे
अश्वमेधशतं तेन इष्टं भवति शाश्वतम्
३.८१.१७३पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च
नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च
३.८१.१७४उदपानाश्च वप्राश्च पुण्यान्यायतनानि च
मासि मासि समायान्ति संनिहित्यां न संशयः
३.८१.१७५यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति
३.८१.१७६अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम्
कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम्
३.८१.१७७गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम
तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः
राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम्
३.८१.१७८पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम्
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
३.८१.१७९पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्
३.८१.१८०दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम्
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे
३.८१.१८१कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते
३.८१.१८२ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्
तदावसन्ति ये राजन्न ते शोच्याः कथंचन
३.८१.१८३तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य
एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते