३.८०.१वैशंपायन उवाच
३.८०.२धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः
३.८०.३अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम्
३.८०.४स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः
विबभावतिदीप्तौजा देवैरिव शतक्रतुः
३.८०.५यथा च वेदान्सावित्री याज्ञसेनी तथा सती
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा
३.८०.६प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ
३.८०.७उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते
३.८०.८अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम्
३.८०.९त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत
३.८०.१०यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि
३.८०.११प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि
३.८०.१२नारद उवाच
३.८०.१३शृणु राजन्नवहितो यथा भीष्मेण भारत
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम्
३.८०.१४पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा
३.८०.१५शुभे देशे महाराज पुण्ये देवर्षिसेविते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते
३.८०.१६स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा
३.८०.१७कस्यचित्त्वथ कालस्य जपन्नेव महातपाः
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम्
३.८०.१८स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ
३.८०.१९उपस्थितं महाराज पूजयामास भारत
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा
३.८०.२०शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे
३.८०.२१भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः
३.८०.२२एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर
३.८०.२३तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत्
३.८०.२४पुलस्त्य उवाच
३.८०.२५अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः
३.८०.२६यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि
३.८०.२७अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ
३.८०.२८भीष्म उवाच
३.८०.२९प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम्
३.८०.३०यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर
वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि
३.८०.३१अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः
तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया
३.८०.३२प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन
३.८०.३३पुलस्त्य उवाच
३.८०.३४हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम्
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम्
३.८०.३५यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते
३.८०.३६प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
३.८०.३७अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते
३.८०.३८अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
३.८०.३९ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम्
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः
३.८०.४०न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासंभारविस्तराः
३.८०.४१प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः
३.८०.४२यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर
३.८०.४३ऋषीणां परमं गुह्यमिदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते
३.८०.४४अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते
३.८०.४५अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्
३.८०.४६नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं नाम विख्यातं महाभागः समाविशेत्
३.८०.४७दश कोटिसहस्राणि तीर्थानां वै महीपते
सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन
३.८०.४८आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः
गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो
३.८०.४९यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्ययोगा महाराज पुण्येन महतान्विताः
३.८०.५०मनसाप्यभिकामस्य पुष्कराणि मनस्विनः
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते
३.८०.५१तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसंमतः
३.८०.५२पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः
३.८०.५३तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
३.८०.५४अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते
३.८०.५५शाकमूलफलैर्वापि येन वर्तयते स्वयम्
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः
३.८०.५६ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम
न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः
३.८०.५७कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम्
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ
३.८०.५८सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान्
३.८०.५९जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति
३.८०.६०यथा सुराणां सर्वेषामादिस्तु मधुसूदनः
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते
३.८०.६१उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति
३.८०.६२यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते
कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत्
३.८०.६३दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्
३.८०.६४उष्य द्वादशरात्रं तु नियतो नियताशनः
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत्
३.८०.६५जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
३.८०.६६तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्
३.८०.६७जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम्
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते
३.८०.६८अगस्त्यसर आसाद्य पितृदेवार्चने रतः
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्
३.८०.६९शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम्
कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम्
३.८०.७०धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते
३.८०.७१अर्चयित्वा पितॄन्देवान्नियतो नियताशनः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
३.८०.७२प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै
३.८०.७३महाकालं ततो गच्छेन्नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
३.८०.७४ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्
३.८०.७५तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात्
३.८०.७६नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम्
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
३.८०.७७दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः
अग्निष्टोममवाप्नोति विमानं चाधिरोहति
३.८०.७८चर्मण्वतीं समासाद्य नियतो नियताशनः
रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत्
३.८०.७९ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम्
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर
३.८०.८०तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
३.८०.८१पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः
कपिलानां नरव्याघ्र शतस्य फलमश्नुते
३.८०.८२ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम्
यत्र संनिहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर अनलोऽनिलसारथिः
३.८०.८३तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
३.८०.८४ततो गत्वा सरस्वत्याः सागरस्य च संगमे
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ
३.८०.८५त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः
प्रभासते यथा सोमो अश्वमेधं च विन्दति
३.८०.८६वरदानं ततो गच्छेत्तीर्थं भरतसत्तम
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर
३.८०.८७वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्
ततो द्वारवतीं गच्छेन्नियतो नियताशनः
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम्
३.८०.८८तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम
३.८०.८९त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
महादेवस्य सांनिध्यं तत्रैव भरतर्षभ
३.८०.९०सागरस्य च सिन्धोश्च संगमं प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः
३.८०.९१तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा
३.८०.९२शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
३.८०.९३प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्
दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम्
३.८०.९४यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति पापानि कृतानि नुदते नरः
३.८०.९५दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्
३.८०.९६जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान्
३.८०.९७ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधमवाप्नुयात्
३.८०.९८स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते
३.८०.९९तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत्
३.८०.१००सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम्
३.८०.१०१ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः
३.८०.१०२कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात्
३.८०.१०३रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम्
तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा
३.८०.१०४अथ पञ्चनदं गत्वा नियतो नियताशनः
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः
३.८०.१०५ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम्
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम
३.८०.१०६देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत्
३.८०.१०७गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत्
३.८०.१०८ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः
३.८०.१०९तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्
३.८०.११०ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम्
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि
३.८०.१११चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत्
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः
३.८०.११२गवां शतसहस्रेण राजसूयशतेन च
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः
३.८०.११३ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत्
अभिगम्य महादेवमश्वमेधफलं लभेत्
३.८०.११४मणिमन्तं समासाद्य ब्रह्मचारी समाहितः
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्
३.८०.११५अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ
३.८०.११६त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम्
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम्
३.८०.११७यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्
३.८०.११८कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम्
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत
३.८०.११९यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम्
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः
३.८०.१२०अर्धयोजनविस्तारां पञ्चयोजनमायताम्
एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम्
३.८०.१२१ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः
दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः
३.८०.१२२गमनादेव राजेन्द्र दीर्घसत्रमरिंदम
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
३.८०.१२३ततो विनशनं गच्छेन्नियतो नियताशनः
गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते
३.८०.१२४स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत्
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्
३.८०.१२५नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम्
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत
३.८०.१२६सरस्वत्यां महाराज अनु संवत्सरं हि ते
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा
३.८०.१२७तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ
३.८०.१२८कुमारकोटिमासाद्य नियतः कुरुनन्दन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गवामयमवाप्नोति कुलं चैव समुद्धरेत्
३.८०.१२९ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः
पुरा यत्र महाराज ऋषिकोटिः समाहिता
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया
३.८०.१३०अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम्
एवं संप्रस्थिता राजन्नृषयः किल भारत
३.८०.१३१ततो योगेश्वरेणापि योगमास्थाय भूपते
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम्
३.८०.१३२सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्
३.८०.१३३तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम्
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान्
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति
३.८०.१३४तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
३.८०.१३५ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्
सरस्वत्या महापुण्यमुपासन्ते जनार्दनम्
३.८०.१३६यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्
३.८०.१३७तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम्
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति
३.८०.१३८ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
सत्रावसानमासाद्य गोसहस्रफलं लभेत्