३.८७.१धौम्य उवाच
३.८७.२अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि
यानि तत्र पवित्राणि पुण्यान्यायतनानि च
३.८७.३प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत
३.८७.४निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः
३.८७.५वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः
दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः
३.८७.६तस्य शैलस्य शिखरे सरस्तत्र च धीमतः
प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम्
३.८७.७बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते
पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते
३.८७.८ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्
विश्वामित्रनदी पारा पुण्या परपुरंजय
३.८७.९यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान्
३.८७.१०तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः
बहुमूलफलो वीर असितो नाम पर्वतः
३.८७.११आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर
च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव
तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो
३.८७.१२जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्
आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः
३.८७.१३ततः पुण्यतमा राजन्सततं तापसायुता
केतुमाला च मेध्या च गङ्गारण्यं च भूमिप
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम्
३.८७.१४पितामहसरः पुण्यं पुष्करं नाम भारत
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः
३.८७.१५अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर
३.८७.१६मनसाप्यभिकामस्य पुष्कराणि मनस्विनः
पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते