३. वनपर्व
३.८८.१धौम्य उवाच

३.८८.२उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च

३.८८.३सरस्वती पुण्यवहा ह्रदिनी वनमालिनी
समुद्रगा महावेगा यमुना यत्र पाण्डव

३.८८.४तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम्
यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः

३.८८.५पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ
सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत

३.८८.६एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः

३.८८.७अग्नयः सहदेवेन ये चिता यमुनामनु
शतं शतसहस्राणि सहस्रशतदक्षिणाः

३.८८.८तत्रैव भरतो राजा चक्रवर्ती महायशाः
विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत्

३.८८.९कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा
अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः

३.८८.१०सरस्वती नदी सद्भिः सततं पार्थ पूजिता
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा

३.८८.११दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर
तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप

३.८८.१२वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ
यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम

३.८८.१३समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा
विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै

३.८८.१४ऋषिर्महान्महाभागो जमदग्निर्महायशाः
पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः

३.८८.१५यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम्
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे

३.८८.१६अपि चात्र महाराज स्वयं विश्वावसुर्जगौ
इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः

३.८८.१७यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः
आगम्य सरितः सर्वा मधुना समतर्पयन्

३.८८.१८गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम्
किरातकिंनरावासं शैलं शिखरिणां वरम्

३.८८.१९बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम्

३.८८.२०सनत्कुमारः कौरव्य पुण्यं कनखलं तथा
पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः

३.८८.२१भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः
स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः

३.८८.२२यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः

३.८८.२३तस्यातियशसः पुण्यां विशालां बदरीमनु
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः

३.८८.२४उष्णतोयवहा गङ्गा शीततोयवहापरा
सुवर्णसिकता राजन्विशालां बदरीमनु

३.८८.२५ऋषयो यत्र देवाश्च महाभागा महौजसः
प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम्

३.८८.२६यत्र नारायणो देवः परमात्मा सनातनः
तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च

३.८८.२७तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम्
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः

३.८८.२८आदिदेवो महायोगी यत्रास्ते मधुसूदनः
पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा

३.८८.२९एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च

३.८८.३०एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः
ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः

३.८८.३१चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः
भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि