३. वनपर्व
३.९४.१वैशंपायन उवाच

३.९४.२ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह

३.९४.३तत्र वै लोमशं राजा पप्रच्छ वदतां वरः
अगस्त्येनेह वातापिः किमर्थमुपशामितः

३.९४.४आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः
किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः

३.९४.५लोमश उवाच

३.९४.६इल्वलो नाम दैतेय आसीत्कौरवनन्दन
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः

३.९४.७स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु

३.९४.८तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम्
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्

३.९४.९समाह्वयति यं वाचा गतं वैवस्वतक्षयम्
स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते

३.९४.१०ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्

३.९४.११तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः
वातापिः प्रहसन्राजन्निश्चक्राम विशां पते

३.९४.१२एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः
हिंसयामास दैतेय इल्वलो दुष्टचेतनः

३.९४.१३अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान्

३.९४.१४सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः
संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः

३.९४.१५ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः

३.९४.१६यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्

३.९४.१७स तानुवाच तेजस्वी सत्यधर्मपरायणः
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः

३.९४.१८ततः प्रसवसंतानं चिन्तयन्भगवानृषिः
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम्

३.९४.१९स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम्
संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्

३.९४.२०स तां विदर्भराजाय पुत्रकामाय ताम्यते
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः

३.९४.२१सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा
विभ्राजमाना वपुसा व्यवर्धत शुभानना

३.९४.२२जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत

३.९४.२३अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः

३.९४.२४ववृधे सा महाराज बिभ्रती रूपमुत्तमम्
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा

३.९४.२५तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः
दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः

३.९४.२६सा स्म दासीशतवृता मध्ये कन्याशतस्य च
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो

३.९४.२७यौवनस्थामपि च तां शीलाचारसमन्विताम्
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः

३.९४.२८सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति
तोषयामास पितरं शीलेन स्वजनं तथा

३.९४.२९वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता
मनसा चिन्तयामास कस्मै दद्यां सुतामिति