३.९५.१लोमश उवाच
३.९५.२यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति
तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम्
३.९५.३राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे
३.९५.४एवमुक्तः स मुनिना महीपालो विचेतनः
प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत
३.९५.५ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्
३.९५.६तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्
लोपामुद्राभिगम्येदं काले वचनमब्रवीत्
३.९५.७न मत्कृते महीपाल पीडामभ्येतुमर्हसि
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः
३.९५.८दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते
३.९५.९प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च
३.९५.१०ततः सा दर्शनीयानि महार्हाणि तनूनि च
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा
३.९५.११ततश्चीराणि जग्राह वल्कलान्यजिनानि च
समानव्रतचर्या च बभूवायतलोचना
३.९५.१२गङ्गाद्वारमथागम्य भगवानृषिसत्तमः
उग्रमातिष्ठत तपः सह पत्न्यानुकूलया
३.९५.१३सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा
अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः
३.९५.१४ततो बहुतिथे काले लोपामुद्रां विशां पते
तपसा द्योतितां स्नातां ददर्श भगवानृषिः
३.९५.१५स तस्याः परिचारेण शौचेन च दमेन च
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम्
३.९५.१६ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्
३.९५.१७असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत
या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि
३.९५.१८यथा पितुर्गृहे विप्र प्रासादे शयनं मम
तथाविधे त्वं शयने मामुपैतुमिहार्हसि
३.९५.१९इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्
उपसर्तुं यथाकामं दिव्याभरणभूषिता
३.९५.२०अगस्त्य उवाच
३.९५.२१न वै धनानि विद्यन्ते लोपामुद्रे तथा मम
यथाविधानि कल्याणि पितुस्तव सुमध्यमे
३.९५.२२लोपामुद्रोवाच
३.९५.२३ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर
क्षणेन जीवलोके यद्वसु किंचन विद्यते
३.९५.२४अगस्त्य उवाच
३.९५.२५एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे
यथा तु मे न नश्येत तपस्तन्मां प्रचोदय
३.९५.२६लोपामुद्रोवाच
३.९५.२७अल्पावशिष्टः कालोऽयमृतौ मम तपोधन
न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन
३.९५.२८न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन
एतत्तु मे यथाकामं संपादयितुमर्हसि
३.९५.२९अगस्त्य उवाच
३.९५.३०यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः
हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता