४.११.१वैशंपायन उवाच
४.११.२अथापरोऽदृश्यत पाण्डवः प्रभु;र्विराटराज्ञस्तुरगान्समीक्षतः
तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम्
४.११.३स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट्
ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः
४.११.४अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः
प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा
४.११.५अभ्येत्य राजानममित्रहाब्रवी;ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च
हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम्
४.११.६विराट उवाच
४.११.७ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि
कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत्
४.११.८नकुल उवाच
४.११.९पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन
४.११.१०अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम्
४.११.११न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः
जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः
४.११.१२विराट उवाच
४.११.१३यदस्ति किंचिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै
ये चापि केचिन्मम वाजियोजका;स्त्वदाश्रयाः सारथयश्च सन्तु मे
४.११.१४इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु
न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम
४.११.१५युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम्
कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः
४.११.१६वैशंपायन उवाच
४.११.१७तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः
न चैनमन्येऽपि विदुः कथंचन; प्रियाभिरामं विचरन्तमन्तरा
४.११.१८एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः
अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः