४. विराटपर्व
४.१८.१द्रौपद्युवाच

४.१८.२इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम्

४.१८.३शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत्

४.१८.४प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत्
प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव

४.१८.५स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता
योध्यमानं महावीर्यैरिमं समनुशोचति

४.१८.६कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः
स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ

४.१८.७सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी
अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ

४.१८.८इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत्
क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि

४.१८.९तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत्
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे

४.१८.१०यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा

४.१८.११योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः

४.१८.१२यस्माद्भयममित्राणां सदैव पुरुषर्षभात्
स लोकपरिभूतेन वेषेणास्ते धनंजयः

४.१८.१३यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः
स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते

४.१८.१४किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः

४.१८.१५यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि
आधारः सर्वविद्यानां स धारयति कुण्डले

४.१८.१६यं स्म राजसहस्राणि तेजसाप्रतिमानि वै
समरे नातिवर्तन्ते वेलामिव महार्णवः

४.१८.१७सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः

४.१८.१८यस्य स्म रथघोषेण समकम्पत मेदिनी
सपर्वतवना भीम सहस्थावरजङ्गमा

४.१८.१९यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत
स शोचयति मामद्य भीमसेन तवानुजः

४.१८.२०भूषितं तमलंकारैः कुण्डलैः परिहाटकैः
कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः

४.१८.२१तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम्
कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः

४.१८.२२यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम्
प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः

४.१८.२३मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम्
पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा

४.१८.२४नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम्
अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम्

४.१८.२५तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम्
गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत

४.१८.२६सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः
न विन्दामि महाबाहो सहदेवस्य दुष्कृतम्
यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः

४.१८.२७दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्
गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम्

४.१८.२८संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम्
विराटमभिनन्दन्तमथ मे भवति ज्वरः

४.१८.२९सहदेवं हि मे वीरं नित्यमार्या प्रशंसति
महाभिजनसंपन्नो वृत्तवाञ्शीलवानिति

४.१८.३०ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे
स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि

४.१८.३१तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम्
सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव

४.१८.३२यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम्

४.१८.३३अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम्
विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः

४.१८.३४अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम्
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः

४.१८.३५किं नु मां मन्यसे पार्थ सुखितेति परंतप
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः

४.१८.३६अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत
वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि

४.१८.३७युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत
शोषयन्ति शरीरं मे किं नु दुःखमतः परम्