४.२.१भीम उवाच
४.२.२पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः
उपस्थास्यामि राजानं विराटमिति मे मतिः
४.२.३सूपानस्य करिष्यामि कुशलोऽस्मि महानसे
कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः
तानप्यभिभविष्यामि प्रीतिं संजनयन्नहम्
४.२.४आहरिष्यामि दारूणां निचयान्महतोऽपि च
तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति
४.२.५द्विपा वा बलिनो राजन्वृषभा वा महाबलाः
विनिग्राह्या यदि मया निग्रहीष्यामि तानपि
४.२.६ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः
तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन्
४.२.७न त्वेतान्युध्यमानान्वै हनिष्यामि कथंचन
तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम्
४.२.८आरालिको गोविकर्ता सूपकर्ता नियोधकः
आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः
४.२.९आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते
इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा
४.२.१०युधिष्ठिर उवाच
४.२.११यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम्
दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा
४.२.१२महाबलं महाबाहुमजितं कुरुनन्दनम्
सोऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः
४.२.१३योऽयमासाद्य तं दावं तर्पयामास पावकम्
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान्
श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति
४.२.१४सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः
आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः
४.२.१५आयुधानां वरो वज्रः ककुद्मी च गवां वरः
ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः
४.२.१६धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा
४.२.१७यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम्
४.२.१८सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत
गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति
४.२.१९उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि
दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता
४.२.२०यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम्
यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ
दक्षिणे चैव सव्ये च गवामिव वहः कृतः
४.२.२१हिमवानिव शैलानां समुद्रः सरितामिव
त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट्
४.२.२२मृगाणामिव शार्दूलो गरुडः पततामिव
वरः संनह्यमानानामर्जुनः किं करिष्यति
४.२.२३अर्जुन उवाच
४.२.२४प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते
ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ
४.२.२५कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे
वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा
४.२.२६पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः
रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान्
४.२.२७गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा
शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः
४.२.२८प्रजानां समुदाचारं बहु कर्मकृतं वदन्
छादयिष्यामि कौन्तेय माययात्मानमात्मना
४.२.२९युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका
उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत
४.२.३०एतेन विधिना छन्नः कृतकेन यथा नलः
विहरिष्यामि राजेन्द्र विराटभवने सुखम्