४.२०.१भीमसेन उवाच
४.२०.२धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ
४.२०.३सभायां स्म विराटस्य करोमि कदनं महत्
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्
तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि
४.२०.४यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च
४.२०.५दुःशासनस्य पापस्य यन्मया न हृतं शिरः
तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम्
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते
४.२०.६इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम्
४.२०.७धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम्
४.२०.८सुकन्या नाम शार्याती भार्गवं च्यवनं वने
वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी
४.२०.९नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम्
४.२०.१०दुहिता जनकस्यापि वैदेही यदि ते श्रुता
पतिमन्वचरत्सीता महारण्यनिवासिनम्
४.२०.११रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया
क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत
४.२०.१२लोपामुद्रा तथा भीरु वयोरूपसमन्विता
अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान्
४.२०.१३यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः
४.२०.१४मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम्
पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि
४.२०.१५द्रौपद्युवाच
४.२०.१६आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम्
अपारयन्त्या दुःखानि न राजानमुपालभे
४.२०.१७विमुक्तेन व्यतीतेन भीमसेन महाबल
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव
४.२०.१८ममेह भीम कैकेयी रूपाभिभवशङ्कया
नित्यमुद्विजते राजा कथं नेयादिमामिति
४.२०.१९तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः
कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम्
४.२०.२०तमहं कुपिता भीम पुनः कोपं नियम्य च
अब्रुवं कामसंमूढमात्मानं रक्ष कीचक
४.२०.२१गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः
४.२०.२२एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह
नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते
४.२०.२३शतं सहस्रमपि वा गन्धर्वाणामहं रणे
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम्
४.२०.२४इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम्
४.२०.२५धर्मे स्थितास्मि सततं कुलशीलसमन्विता
नेच्छामि कंचिद्वध्यन्तं तेन जीवसि कीचक
४.२०.२६एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा
न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति
४.२०.२७पापात्मा पापभावश्च कामरागवशानुगः
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः
दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम्
४.२०.२८तद्धर्मे यतमानानां महान्धर्मो नशिष्यति
समयं रक्षमाणानां भार्या वो न भविष्यति
४.२०.२९भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः
४.२०.३०वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम्
क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात्
४.२०.३१पश्यतो धर्मराजस्य कीचको मां पदावधीत्
तव चैव समक्षं वै भीमसेन महाबल
४.२०.३२त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात्
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह
४.२०.३३जहीममपि पापं त्वं योऽयं मामवमन्यते
कीचको राजवाल्लभ्याच्छोककृन्मम भारत
४.२०.३४तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि
यो निमित्तमनर्थानां बहूनां मम भारत
४.२०.३५तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति
विषमालोड्य पास्यामि मा कीचकवशं गमम्
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः
४.२०.३६वैशंपायन उवाच
४.२०.३७इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च
कीचकं मनसागच्छत्सृक्किणी परिसंलिहन्