४.२१.१भीमसेन उवाच
४.२१.२तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
अद्य तं सूदयिष्यामि कीचकं सहबान्धवम्
४.२१.३अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम्
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते
४.२१.४यैषा नर्तनशाला वै मत्स्यराजेन कारिता
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्
४.२१.५तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्
तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान्
४.२१.६यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम्
कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत्
४.२१.७वैशंपायन उवाच
४.२१.८तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ
रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा
४.२१.९तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत्
४.२१.१०सभायां पश्यतो राज्ञः पातयित्वा पदाहनम्
न चैवालभथास्त्राणमभिपन्ना बलीयसा
४.२१.११प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते
अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः
४.२१.१२सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते
अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम्
४.२१.१३दासीशतं च ते दद्यां दासानामपि चापरम्
रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः
४.२१.१४द्रौपद्युवाच
४.२१.१५एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक
न त्वां सखा वा भ्राता वा जानीयात्संगतं मया
४.२१.१६अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम्
एवं मे प्रतिजानीहि ततोऽहं वशगा तव
४.२१.१७कीचक उवाच
४.२१.१८एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे
एको भद्रे गमिष्यामि शून्यमावसथं तव
४.२१.१९समागमार्थं रम्भोरु त्वया मदनमोहितः
यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः
४.२१.२०द्रौपद्युवाच
४.२१.२१यदिदं नर्तनागारं मत्स्यराजेन कारितम्
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्
४.२१.२२तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते
तत्र दोषः परिहृतो भविष्यति न संशयः
४.२१.२३वैशंपायन उवाच
४.२१.२४तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह
दिवसार्धं समभवन्मासेनैव समं नृप
४.२१.२५कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः
सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान्
४.२१.२६गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः
अलंचकार सोऽऽत्मानं सत्वरः काममोहितः
४.२१.२७तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्
अनुचिन्तयतश्चापि तामेवायतलोचनाम्
४.२१.२८आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः
४.२१.२९कृतसंप्रत्ययस्तत्र कीचकः काममोहितः
नाजानाद्दिवसं यान्तं चिन्तयानः समागमम्
४.२१.३०ततस्तु द्रौपदी गत्वा तदा भीमं महानसे
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात्
४.२१.३१तमुवाच सुकेशान्ता कीचकस्य मया कृतः
संगमो नर्तनागारे यथावोचः परंतप
४.२१.३२शून्यं स नर्तनागारमागमिष्यति कीचकः
एको निशि महाबाहो कीचकं तं निषूदय
४.२१.३३तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम्
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव
४.२१.३४दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते
तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर
४.२१.३५अश्रु दुःखाभिभूताया मम मार्जस्व भारत
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च
४.२१.३६भीमसेन उवाच
४.२१.३७स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम्
न ह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि
४.२१.३८या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे
हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि
४.२१.३९सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा
४.२१.४०तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम्
अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम्
४.२१.४१ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम्
कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः
४.२१.४२द्रौपद्युवाच
४.२१.४३यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो
निगूढस्त्वं तथा वीर कीचकं विनिपातय
४.२१.४४भीमसेन उवाच
४.२१.४५एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे
अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते
४.२१.४६नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः
४.२१.४७वैशंपायन उवाच
४.२१.४८भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत्
मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम्
४.२१.४९कीचकश्चाप्यलंकृत्य यथाकाममुपाव्रजत्
तां वेलां नर्तनागारे पाञ्चालीसंगमाशया
४.२१.५०मन्यमानः स संकेतमागारं प्राविशच्च तम्
प्रविश्य च स तद्वेश्म तमसा संवृतं महत्
४.२१.५१पूर्वागतं ततस्तत्र भीममप्रतिमौजसम्
एकान्तमास्थितं चैनमाससाद सुदुर्मतिः
४.२१.५२शयानं शयने तत्र मृत्युं सूतः परामृशत्
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह
४.२१.५३उपसंगम्य चैवैनं कीचकः काममोहितः
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत
४.२१.५४प्रापितं ते मया वित्तं बहुरूपमनन्तकम्
तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः
४.२१.५५नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः
सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान्
४.२१.५६भीमसेन उवाच
४.२१.५७दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित्
४.२१.५८वैशंपायन उवाच
४.२१.५९इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः
समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम्
भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु
४.२१.६०स केशेषु परामृष्टो बलेन बलिनां वरः
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम्
४.२१.६१बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः
वसन्ते वाशिताहेतोर्बलवद्गजयोरिव
४.२१.६२ईषदागलितं चापि क्रोधाच्चलपदं स्थितम्
कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि
४.२१.६३पातितो भुवि भीमस्तु कीचकेन बलीयसा
उत्पपाताथ वेगेन दण्डाहत इवोरगः
४.२१.६४स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ
निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने
४.२१.६५ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः
बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम्
४.२१.६६तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली
कीचको रोषसंतप्तः पदान्न चलितः पदम्
४.२१.६७मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम्
बलादहीयत तदा सूतो भीमबलार्दितः
४.२१.६८तं हीयमानं विज्ञाय भीमसेनो महाबलः
वक्षस्यानीय वेगेन ममन्थैनं विचेतसम्
४.२१.६९क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः
जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम्
४.२१.७०गृहीत्वा कीचकं भीमो विरुराव महाबलः
शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम्
४.२१.७१तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः
काये प्रवेशयामास पशोरिव पिनाकधृक्
४.२१.७२तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम्
कृष्णायै दर्शयामास भीमसेनो महाबलः
४.२१.७३उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः
पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः
४.२१.७४तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम्
आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम्
४.२१.७५कीचकं घातयित्वा तु द्रौपदी योषितां वरा
प्रहृष्टा गतसंतापा सभापालानुवाच ह
४.२१.७६कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम
परस्त्रीकामसंमत्तः समागच्छत पश्यत
४.२१.७७तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः
सहसैव समाजग्मुरादायोल्काः सहस्रशः
४.२१.७८ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम्
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम्
४.२१.७९क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा
इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा