४. विराटपर्व
४.२५.१वैशंपायन उवाच

४.२५.२ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा
चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः

४.२५.३सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः
तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः

४.२५.४अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे

४.२५.५अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः

४.२५.६क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः
दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम्

४.२५.७अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम्

४.२५.८तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम्
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत्

४.२५.९अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत
अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः

४.२५.१०चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान्
तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च

४.२५.११परिचारेषु तीर्थेषु विविधेष्वाकरेषु च
विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया

४.२५.१२विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः
अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः

४.२५.१३नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च

४.२५.१४अथाग्रजानन्तरजः पापभावानुरागिणम्
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत्

४.२५.१५एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा
यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः
एते चान्ये च भूयांसो देशाद्देशं यथाविधि

४.२५.१६न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते
अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः

४.२५.१७व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः
अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः

४.२५.१८तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन
कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप