४.२४.१वैशंपायन उवाच
४.२४.२कीचकस्य तु घातेन सानुजस्य विशां पते
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः
४.२४.३तस्मिन्पुरे जनपदे संजल्पोऽभूच्च सर्वशः
शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः
४.२४.४आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः
स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः
४.२४.५इत्यजल्पन्महाराज परानीकविशातनम्
देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम्
४.२४.६अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः
मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च
४.२४.७संविधाय यथादिष्टं यथादेशप्रदर्शनम्
कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति
४.२४.८तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम्
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना
४.२४.९संगतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन्
४.२४.१०कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने
४.२४.११निर्जने मृगसंकीर्णे नानाद्रुमलतावृते
लताप्रतानबहुले नानागुल्मसमावृते
४.२४.१२न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः
मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा
४.२४.१३गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च
जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च
४.२४.१४नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान्
अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ
४.२४.१५वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम
कंचित्कालं मनुष्येन्द्र सूतानामनुगा वयम्
४.२४.१६मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः
प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप
४.२४.१७न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता
सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ
४.२४.१८न हि विद्मो गतिं तेषां वासं वापि महात्मनाम्
पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम्
स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते
४.२४.१९अन्वेषणे पाण्डवानां भूयः किं करवामहे
इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम्
४.२४.२०येन त्रिगर्ता निकृता बलेन महता नृप
सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना
४.२४.२१स हतः पतितः शेते गन्धर्वैर्निशि भारत
अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत
४.२४.२२प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम्
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम्