४. विराटपर्व
४.३५.१वैशंपायन उवाच

४.३५.२स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा
प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत

४.३५.३तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम्
प्रणयं भावयन्ती स्म सखीमध्य इदं वचः

४.३५.४गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे
तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः

४.३५.५नचिरं च हतस्तस्य संग्रामे रथसारथिः
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत्

४.३५.६तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव

४.३५.७सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः

४.३५.८अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम्

४.३५.९एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः
जगाम राजपुत्रस्य सकाशममितौजसः

४.३५.१०तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्
अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव

४.३५.११दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत्

४.३५.१२पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः
सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान्

४.३५.१३संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः

४.३५.१४अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा
त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः

४.३५.१५एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि

४.३५.१६गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम्
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि

४.३५.१७उत्तर उवाच

४.३५.१८बृहन्नडे गायनो वा नर्तनो वा पुनर्भव
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान्

४.३५.१९वैशंपायन उवाच

४.३५.२०स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु
उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम

४.३५.२१ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः

४.३५.२२स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः
कवचेन महार्हेण समनह्यद्बृहन्नडाम्

४.३५.२३स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम्
ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत्

४.३५.२४धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून्
आदाय प्रययौ वीरः स बृहन्नडसारथिः

४.३५.२५अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा
बृहन्नडे आनयेथा वासांसि रुचिराणि नः

४.३५.२६पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून्

४.३५.२७अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः

४.३५.२८यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च

४.३५.२९एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान्
कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः