४. विराटपर्व
४.५४.१वैशंपायन उवाच

४.५४.२तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम्
शरजालेन महता वर्षमाणमिवाम्बुदम्

४.५४.३तयोर्देवासुरसमः संनिपातो महानभूत्
किरतोः शरजालानि वृत्रवासवयोरिव

४.५४.४न स्म सूर्यस्तदा भाति न च वाति समीरणः
शरगाढे कृते व्योम्नि छायाभूते समन्ततः

४.५४.५महांश्चटचटाशब्दो योधयोर्हन्यमानयोः
दह्यतामिव वेणूनामासीत्परपुरंजय

४.५४.६हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान्
स राजन्न प्रजानाति दिशं कांचन मोहितः

४.५४.७ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः
विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह
तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम्

४.५४.८ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम्
पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः

४.५४.९ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा
योजयामास नवया मौर्व्या गाण्डीवमोजसा

४.५४.१०ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत्
वारणेनेव मत्तेन मत्तो वारणयूथपः

४.५४.११ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः
रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम्

४.५४.१२तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः
युध्यमानौ महात्मानौ यूथपाविव संगतौ

४.५४.१३तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ
शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः

४.५४.१४अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः

४.५४.१५अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः

४.५४.१६ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा
अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत्

४.५४.१७तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः
ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत्

४.५४.१८स रोषवशमापन्नः कर्णमेव जिघांसया
अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः

४.५४.१९तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान्
त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः

४.५४.२०उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनंजयः
अभिदुद्राव सहसा कर्णमेव सपत्नजित्

४.५४.२१तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः
कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत्