४. विराटपर्व
४.६७.१विराट उवाच

४.६७.२किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि

४.६७.३अर्जुन उवाच

४.६७.४अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि

४.६७.५प्रियो बहुमतश्चाहं नर्तको गीतकोविदः
आचार्यवच्च मां नित्यं मन्यते दुहिता तव

४.६७.६वयःस्थया तया राजन्सह संवत्सरोषितः
अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो

४.६७.७तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया

४.६७.८स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति

४.६७.९अभिषङ्गादहं भीतो मिथ्याचारात्परंतप
स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम्

४.६७.१०स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा
दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः

४.६७.११अभिमन्युर्महाबाहुः पुत्रो मम विशां पते
जामाता तव युक्तो वै भर्ता च दुहितुस्तव

४.६७.१२विराट उवाच

४.६७.१३उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः

४.६७.१४यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः

४.६७.१५वैशंपायन उवाच

४.६७.१६एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः
अन्वजानात्स संयोगं समये मत्स्यपार्थयोः

४.६७.१७ततो मित्रेषु सर्वेषु वासुदेवे च भारत
प्रेषयामास कौन्तेयो विराटश्च महीपतिः

४.६७.१८ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः
उपप्लव्ये विराटस्य समपद्यन्त सर्वशः

४.६७.१९तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम्
आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः

४.६७.२०काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते

४.६७.२१अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः

४.६७.२२धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः
सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास्तनुत्यजः

४.६७.२३तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः
प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे

४.६७.२४ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः
तत्रागमद्वासुदेवो वनमाली हलायुधः
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः

४.६७.२५अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च
अभिमन्युमुपादाय सह मात्रा परंतपाः

४.६७.२६इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः
आययुः सहिताः सर्वे परिसंवत्सरोषिताः

४.६७.२७दश नागसहस्राणि हयानां च शतायुतम्
रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम्

४.६७.२८वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम्

४.६७.२९पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्
स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः
ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः

४.६७.३०ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि

४.६७.३१उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून्
सुरामैरेयपानानि प्रभूतान्यभ्यहारयन्

४.६७.३२गायनाख्यानशीलाश्च नटा वैतालिकास्तथा
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः

४.६७.३३सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः

४.६७.३४वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः
सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया

४.६७.३५परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम्
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे

४.६७.३६तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनंजयः
सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा

४.६७.३७तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन्
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः

४.६७.३८प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम्
विवाहं कारयामास सौभद्रस्य महात्मनः

४.६७.३९तस्मै सप्त सहस्राणि हयानां वातरंहसाम्
द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा

४.६७.४०कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः

४.६७.४१गोसहस्राणि रत्नानि वस्त्राणि विविधानि च
भूषणानि च मुख्यानि यानानि शयनानि च

४.६७.४२तन्महोत्सवसंकाशं हृष्टपुष्टजनावृतम्
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ