४.९.१वैशंपायन उवाच
४.९.२सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम्
भाषां चैषां समास्थाय विराटमुपयादथ
४.९.३तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम्
समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम्
४.९.४कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि
न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ
४.९.५स प्राप्य राजानममित्रतापन;स्ततोऽब्रवीन्मेघमहौघनिःस्वनः
वैश्योऽस्मि नाम्नाहमरिष्टनेमि;र्गोसंख्य आसं कुरुपुंगवानाम्
४.९.६वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान्
न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः
४.९.७विराट उवाच
४.९.८त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि
आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम्
४.९.९कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम्
कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम्
४.९.१०सहदेव उवाच
४.९.११पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः
तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः
४.९.१२अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे
तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः
४.९.१३भूतं भव्यं भविष्यच्च यच्च संख्यागतं क्वचित्
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम्
४.९.१४गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः
४.९.१५क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित्
तैस्तैरुपायैर्विदितं मयैत;देतानि शिल्पानि मयि स्थितानि
४.९.१६वृषभांश्चापि जानामि राजन्पूजितलक्षणान्
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते
४.९.१७विराट उवाच
४.९.१८शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः
पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह
४.९.१९वैशंपायन उवाच
४.९.२०तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः
न चैनमन्येऽपि विदुः कथंचन; प्रादाच्च तस्मै भरणं यथेप्सितम्