४. विराटपर्व
४.८.१वैशंपायन उवाच

४.८.२ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान्
जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना

४.८.३वासश्च परिधायैकं कृष्णं सुमलिनं महत्
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत्

४.८.४तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन्
अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि

४.८.५सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता
कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति

४.८.६तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा
नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम्

४.८.७विराटस्य तु कैकेयी भार्या परमसंमता
अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम्

४.८.८सा समीक्ष्य तथारूपामनाथामेकवाससम्
समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि

४.८.९सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता
कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति

४.८.१०सुदेष्णोवाच

४.८.११नैवंरूपा भवन्त्येवं यथा वदसि भामिनि
प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून्

४.८.१२गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता
रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी

४.८.१३सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा
तेन तेनैव संपन्ना काश्मीरीव तुरंगमा

४.८.१४स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना

४.८.१५का त्वं ब्रूहि यथा भद्रे नासि दासी कथंचन
यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः

४.८.१६अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी
इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः
देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे

४.८.१७द्रौपद्युवाच

४.८.१८नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी
सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते

४.८.१९केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम्
ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः

४.८.२०आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम्
कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम्

४.८.२१तत्र तत्र चराम्येवं लभमाना सुशोभनम्
वासांसि यावच्च लभे तावत्तावद्रमे तथा

४.८.२२मालिनीत्येव मे नाम स्वयं देवी चकार सा
साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम्

४.८.२३सुदेष्णोवाच

४.८.२४मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते
नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा

४.८.२५स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि
प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः

४.८.२६वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि
तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः

४.८.२७राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम्
विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा

४.८.२८यं हि त्वमनवद्याङ्गि नरमायतलोचने
प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत्

४.८.२९यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि
एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत्

४.८.३०यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः
तथाविधमहं मन्ये वासं तव शुचिस्मिते

४.८.३१द्रौपद्युवाच

४.८.३२नास्मि लभ्या विराटेन न चान्येन कथंचन
गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि

४.८.३३पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित्
रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम्

४.८.३४यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्
प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम

४.८.३५यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः
तामेव स ततो रात्रिं प्रविशेदपरां तनुम्

४.८.३६न चाप्यहं चालयितुं शक्या केनचिदङ्गने
दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः

४.८.३७सुदेष्णोवाच

४.८.३८एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि
न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथंचन

४.८.३९वैशंपायन उवाच

४.८.४०एवं कृष्णा विराटस्य भार्यया परिसान्त्विता
न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय