५. उद्योगपर्व
५.१००.१नारद उवाच

५.१००.२इदं रसातलं नाम सप्तमं पृथिवीतलम्
यत्रास्ते सुरभिर्माता गवाममृतसंभवा

५.१००.३क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम्
षण्णां रसानां सारेण रसमेकमनुत्तमम्

५.१००.४अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा
पितामहस्य वदनादुदतिष्ठदनिन्दिता

५.१००.५यस्याः क्षीरस्य धाराया निपतन्त्या महीतले
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम्

५.१००.६पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम्
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः

५.१००.७फेनपा नाम नाम्ना ते फेनाहाराश्च मातले
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः

५.१००.८अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले
निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः

५.१००.९पूर्वां दिशं धारयते सुरूपा नाम सौरभी
दक्षिणां हंसका नाम धारयत्यपरां दिशम्

५.१००.१०पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया
महानुभावया नित्यं मातले विश्वरूपया

५.१००.११सर्वकामदुघा नाम धेनुर्धारयते दिशम्
उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम्

५.१००.१२आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः

५.१००.१३उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम्

५.१००.१४सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्
अमृतं चामृताशेषु सुरभिः क्षरते पयः

५.१००.१५अत्र गाथा पुरा गीता रसातलनिवासिभिः
पौराणी श्रूयते लोके गीयते या मनीषिभिः

५.१००.१६न नागलोके न स्वर्गे न विमाने त्रिविष्टपे
परिवासः सुखस्तादृग्रसातलतले यथा