५.९९.१नारद उवाच
५.९९.२अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम्
विक्रमे गमने भारे नैषामस्ति परिश्रमः
५.९९.३वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम्
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा
५.९९.४सुरूपपक्षिराजेन सुबलेन च मातले
वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः
५.९९.५पक्षिराजाभिजात्यानां सहस्राणि शतानि च
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः
५.९९.६सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत
५.९९.७कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः
ज्ञातिसंक्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै
५.९९.८नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम्
५.९९.९दैवतं विष्णुरेतेषां विष्णुरेव परायणम्
हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा
५.९९.१०सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः
अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली
५.९९.११काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः
वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा
५.९९.१२त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः
५.९९.१३सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः
मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः
५.९९.१४गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः
विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा
५.९९.१५सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च
मलयो मातरिश्वा च निशाकरदिवाकरौ
५.९९.१६एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः
प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते
५.९९.१७यद्यत्र न रुचिः काचिदेहि गच्छाव मातले
तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे