५. उद्योगपर्व
५.१०२.१नारद उवाच

५.१०२.२सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली

५.१०२.३शक्रस्यायं सखा चैव मन्त्री सारथिरेव च
अल्पान्तरप्रभावश्च वासवेन रणे रणे

५.१०२.४अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्
देवासुरेषु युद्धेषु मनसैव नियच्छति

५.१०२.५अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः
अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत

५.१०२.६अस्य कन्या वरारोहा रूपेणासदृशी भुवि
सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता

५.१०२.७तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः

५.१०२.८यदि ते रोचते सौम्य भुजगोत्तम माचिरम्
क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे

५.१०२.९यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः
कुले तव तथैवास्तु गुणकेशी सुमध्यमा

५.१०२.१०पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव

५.१०२.११पितृहीनमपि ह्येनं गुणतो वरयामहे
बहुमानाच्च भवतस्तथैवैरावतस्य च
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः

५.१०२.१२अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः
मातलेस्तस्य संमानं कर्तुमर्हो भवानपि

५.१०२.१३कण्व उवाच

५.१०२.१४स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते

५.१०२.१५न मे नैतद्बहुमतं देवर्षे वचनं तव
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्

५.१०२.१६कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने
अस्य देहकरस्तात मम पुत्रो महाद्युते
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम्

५.१०२.१७पुनरेव च तेनोक्तं वैनतेयेन गच्छता
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो

५.१०२.१८ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै

५.१०२.१९मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया
जामातृभावेन वृतः सुमुखस्तव पुत्रजः

५.१०२.२०सोऽयं मया च सहितो नारदेन च पन्नगः
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम्

५.१०२.२१शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम

५.१०२.२२सुमुखश्च मया सार्धं देवेशमभिगच्छतु
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम

५.१०२.२३ततस्ते सुमुखं गृह्य सर्व एव महौजसः
ददृशुः शक्रमासीनं देवराजं महाद्युतिम्

५.१०२.२४संगत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति

५.१०२.२५ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम्
अमृतं दीयतामस्मै क्रियताममरैः समः

५.१०२.२६मातलिर्नारदश्चैव सुमुखश्चैव वासव
लभन्तां भवतः कामात्काममेतं यथेप्सितम्

५.१०२.२७पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम्
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति

५.१०२.२८विष्णुरुवाच

५.१०२.२९ईशस्त्वमसि लोकानां चराणामचराश्च ये
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो

५.१०२.३०कण्व उवाच

५.१०२.३१प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्
न त्वेनममृतप्राशं चकार बलवृत्रहा

५.१०२.३२लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह
कृतदारो यथाकामं जगाम च गृहान्प्रति

५.१०२.३३नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ
प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम्