५.१०३.१कण्व उवाच
५.१०३.२गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः
आयुःप्रदानं शक्रेण कृतं नागस्य भारत
५.१०३.३पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्
५.१०३.४गरुड उवाच
५.१०३.५भगवन्किमवज्ञानात्क्षुधां प्रति भये मम
कामकारवरं दत्त्वा पुनश्चलितवानसि
५.१०३.६निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे
आहारो विहितो धात्रा किमर्थं वार्यते त्वया
५.१०३.७वृतश्चैष महानागः स्थापितः समयश्च मे
अनेन च मया देव भर्तव्यः प्रसवो महान्
५.१०३.८एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे
क्रीडसे कामकारेण देवराज यथेच्छकम्
५.१०३.९सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम
ये च भृत्या मम गृहे प्रीतिमान्भव वासव
५.१०३.१०एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः
५.१०३.११त्वयि तिष्ठति देवेश न विष्णुः कारणं मम
त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम्
५.१०३.१२ममापि दक्षस्य सुता जननी कश्यपः पिता
अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा
५.१०३.१३असह्यं सर्वभूतानां ममापि विपुलं बलम्
मयापि सुमहत्कर्म कृतं दैतेयविग्रहे
५.१०३.१४श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः
प्रसभः कालकाक्षश्च मयापि दितिजा हताः
५.१०३.१५यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्
वहामि चैवानुजं ते तेन मामवमन्यसे
५.१०३.१६कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम्
५.१०३.१७अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव
५.१०३.१८अदित्यां य इमे जाता बलविक्रमशालिनः
त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः
५.१०३.१९सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः
विमृश त्वं शनैस्तात को न्वत्र बलवानिति
५.१०३.२०कण्व उवाच
५.१०३.२१तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम्
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत्
५.१०३.२२गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम्
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज
५.१०३.२३त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे
अहमेवात्मनात्मानं वहामि त्वां च धारये
५.१०३.२४इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह
यद्येनं धारयस्येकं सफलं ते विकत्थितम्
५.१०३.२५ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्
निपपात स भारार्तो विह्वलो नष्टचेतनः
५.१०३.२६यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह
एकस्या देहशाखायास्तावद्भारममन्यत
५.१०३.२७न त्वेनं पीडयामास बलेन बलवत्तरः
ततो हि जीवितं तस्य न व्यनीनशदच्युतः
५.१०३.२८विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः
मुमोच पत्राणि तदा गुरुभारप्रपीडितः
५.१०३.२९स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः
विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत्
५.१०३.३०भगवँल्लोकसारस्य सदृशेन वपुष्मता
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले
५.१०३.३१क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः
५.१०३.३२न विज्ञातं बलं देव मया ते परमं विभो
तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः
५.१०३.३३ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह
५.१०३.३४तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक
५.१०३.३५भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः
धनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे
५.१०३.३६विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ
एते देवास्त्वया केन हेतुना शक्यमीक्षितुम्
५.१०३.३७तदलं ते विरोधेन शमं गच्छ नृपात्मज
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि
५.१०३.३८प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः
माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः
५.१०३.३९वैशंपायन उवाच
५.१०३.४०दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा
५.१०३.४१कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः
ऊरुं गजकराकारं ताडयन्निदमब्रवीत्
५.१०३.४२यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः
तथा महर्षे वर्तामि किं प्रलापः करिष्यति