५. उद्योगपर्व
५.११०.१गालव उवाच

५.११०.२गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी

५.११०.३पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता
दैवतानां हि सांनिध्यमत्र कीर्तितवानसि

५.११०.४अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज

५.११०.५नारद उवाच

५.११०.६तमाह विनतासूनुरारोहस्वेति वै द्विजम्
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा

५.११०.७गालव उवाच

५.११०.८क्रममाणस्य ते रूपं दृश्यते पन्नगाशन
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः

५.११०.९पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम्
प्रस्थितानामिव समं पश्यामीह गतिं खग

५.११०.१०ससागरवनामुर्वीं सशैलवनकाननाम्
आकर्षन्निव चाभासि पक्षवातेन खेचर

५.११०.११समीननागनक्रं च खमिवारोप्यते जलम्
वायुना चैव महता पक्षवातेन चानिशम्

५.११०.१२तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिंगिलान्
नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव

५.११०.१३महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते
न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम्

५.११०.१४शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन्
न दृश्यते रविस्तात न दिशो न च खं खग

५.११०.१५तम एव तु पश्यामि शरीरं ते न लक्षये
मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज

५.११०.१६शरीरे तु न पश्यामि तव चैवात्मनश्च ह
पदे पदे तु पश्यामि सलिलादग्निमुत्थितम्

५.११०.१७स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः
तन्निवर्त महान्कालो गच्छतो विनतात्मज

५.११०.१८न मे प्रयोजनं किंचिद्गमने पन्नगाशन
संनिवर्त महावेग न वेगं विषहामि ते

५.११०.१९गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम्
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्

५.११०.२०तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज
ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः

५.११०.२१नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत्
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम्

५.११०.२२नारद उवाच

५.११०.२३एवं बहु च दीनं च ब्रुवाणं गालवं तदा
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः

५.११०.२४नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि
न चापि कृत्रिमः कालः कालो हि परमेश्वरः

५.११०.२५किमहं पूर्वमेवेह भवता नाभिचोदितः
उपायोऽत्र महानस्ति येनैतदुपपद्यते

५.११०.२६तदेष ऋषभो नाम पर्वतः सागरोरसि
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव