५. उद्योगपर्व
५.११२.१नारद उवाच

५.११२.२अथाह गालवं दीनं सुपर्णः पततां वरः
निर्मितं वह्निना भूमौ वायुना वैधितं तथा
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते

५.११२.३धत्ते धारयते चेदमेतस्मात्कारणाद्धनम्
तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम्

५.११२.४नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम्

५.११२.५अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ

५.११२.६ऋते च धनमश्वानां नावाप्तिर्विद्यते तव
अर्थं याचात्र राजानं कंचिद्राजर्षिवंशजम्
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ

५.११२.७अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि

५.११२.८ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः
स दास्यति मया चोक्तो भवता चार्थितः स्वयम्

५.११२.९विभवश्चास्य सुमहानासीद्धनपतेरिव
एवं स तु धनं विद्वान्दानेनैव व्यशोधयत्

५.११२.१०तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ

५.११२.११प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम्
पृष्टश्चागमने हेतुमुवाच विनतासुतः

५.११२.१२अयं मे नाहुष सखा गालवस्तपसो निधिः
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप

५.११२.१३सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः
तमाह भगवान्कां ते ददानि गुरुदक्षिणाम्

५.११२.१४असकृत्तेन चोक्तेन किंचिदागतमन्युना
अयमुक्तः प्रयच्छेति जानता विभवं लघु

५.११२.१५एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम्
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम्

५.११२.१६गुर्वर्थो दीयतामेष यदि गालव मन्यसे
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः

५.११२.१७सोऽयं शोकेन महता तप्यमानो द्विजर्षभः
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः

५.११२.१८प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः
कृत्वापवर्गं गुरवे चरिष्यति महत्तपः

५.११२.१९तपसः संविभागेन भवन्तमपि योक्ष्यते
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति

५.११२.२०यावन्ति रोमाणि हये भवन्ति हि नरेश्वर
तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते

५.११२.२१पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान्
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम्