५.११९.१नारद उवाच
५.११९.२अथ प्रचलितः स्थानादासनाच्च परिच्युतः
कम्पितेनैव मनसा धर्षितः शोकवह्निना
५.११९.३म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः
५.११९.४अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम्
५.११९.५किं मया मनसा ध्यातमशुभं धर्मदूषणम्
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत्
५.११९.६ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा
अपश्यन्त निरालम्बं ययातिं तं परिच्युतम्
५.११९.७अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः
ययातिमब्रवीद्राजन्देवराजस्य शासनात्
५.११९.८अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत्
५.११९.९पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः
पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः
५.११९.१०एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान्
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः
५.११९.११प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम्
५.११९.१२तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्
ययातिरुपजिघ्रन्वै निपपात महीं प्रति
५.११९.१३भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः
स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः
५.११९.१४श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु
मध्ये निपतितो राजा लोकपालोपमेषु च
५.११९.१५चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु
पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये
५.११९.१६तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा
५.११९.१७यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा
न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया
५.११९.१८ययातिरुवाच
५.११९.१९ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः
५.११९.२०राजान ऊचुः
५.११९.२१सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम्
५.११९.२२ययातिरुवाच
५.११९.२३नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम्
न च मे प्रवणा बुद्धिः परपुण्यविनाशने
५.११९.२४नारद उवाच
५.११९.२५एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन्
५.११९.२६किमागमनकृत्यं ते किं कुर्मः शासनं तव
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने
५.११९.२७तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा
पितरं समुपागच्छद्ययातिं सा ववन्द च
५.११९.२८दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत्
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः
इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम्
५.११९.२९अहं ते दुहिता राजन्माधवी मृगचारिणी
मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम्
५.११९.३०यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप
५.११९.३१ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन्
५.११९.३२उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम्
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम्
५.११९.३३अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम्
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान्