५. उद्योगपर्व
५.११८.१नारद उवाच

५.११८.२स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्
उपगम्याश्रमपदं गङ्गायमुनसंगमे

५.११८.३गृहीतमाल्यदामां तां रथमारोप्य माधवीम्
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम्

५.११८.४नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम्
शैलद्रुमवनौकानामासीत्तत्र समागमः

५.११८.५नानापुरुषदेशानामीश्वरैश्च समाकुलम्
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्

५.११८.६निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी
वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम्

५.११८.७अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा

५.११८.८उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी

५.११८.९वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च
चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च

५.११८.१०स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च
पिबन्ती वारिमुख्यानि शीतानि विमलानि च

५.११८.११वनेषु मृगराजेषु सिंहविप्रोषितेषु च
दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च

५.११८.१२चरन्ती हरिणैः सार्धं मृगीव वनचारिणी
चचार विपुलं धर्मं ब्रह्मचर्येण संवृता

५.११८.१३ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः
बहुवर्षसहस्रायुरयुजत्कालधर्मणा

५.११८.१४पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः

५.११८.१५महीयते नरपतिर्ययातिः स्वर्गमास्थितः
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः

५.११८.१६बहुवर्षसहस्राख्ये काले बहुगुणे गते
राजर्षिषु निषण्णेषु महीयःसु महर्षिषु

५.११८.१७अवमेने नरान्सर्वान्देवानृषिगणांस्तथा
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः

५.११८.१८ततस्तं बुबुधे देवः शक्रो बलनिषूदनः
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्

५.११८.१९विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः

५.११८.२०कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम्
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत

५.११८.२१एवं विचारयन्तस्ते राजानः स्वर्गवासिनः
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति

५.११८.२२विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन्

५.११८.२३सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्
स मुहूर्तादथ नृपो हतौजा अभवत्तदा