५.१२.१शल्य उवाच
५.१२.२क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः
अब्रुवन्देवराजानं नहुषं घोरदर्शनम्
५.१२.३देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो
त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम्
५.१२.४जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर
५.१२.५निवर्तय मनः पापात्परदाराभिमर्शनात्
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय
५.१२.६एवमुक्तो न जग्राह तद्वचः काममोहितः
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः
५.१२.७अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः
५.१२.८बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः
५.१२.९उपतिष्ठतु मां देवी एतदस्या हितं परम्
युष्माकं च सदा देवाः शिवमेवं भविष्यति
५.१२.१०देवा ऊचुः
५.१२.११इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर
५.१२.१२शल्य उवाच
५.१२.१३इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः
५.१२.१४जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम
५.१२.१५ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्
५.१२.१६इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः
वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी
५.१२.१७एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम्
उवाच रुदती दीना बृहस्पतिमिदं वचः
५.१२.१८नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम्
शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात्
५.१२.१९बृहस्पतिरुवाच
५.१२.२०शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम्
धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते
५.१२.२१नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम्
५.१२.२२नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम्
५.१२.२३न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले
भीतं प्रपन्नं प्रददाति शत्रवे; न सोऽन्तरं लभते त्राणमिच्छन्
५.१२.२४मोघमन्नं विन्दति चाप्यचेताः; स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः
भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः
५.१२.२५प्रमीयते चास्य प्रजा ह्यकाले; सदा विवासं पितरोऽस्य कुर्वते
भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्
५.१२.२६एतदेवं विजानन्वै न दास्यामि शचीमिमाम्
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम्
५.१२.२७अस्या हितं भवेद्यच्च मम चापि हितं भवेत्
क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम्
५.१२.२८शल्य उवाच
५.१२.२९अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम्
कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते
५.१२.३०बृहस्पतिरुवाच
५.१२.३१नहुषं याचतां देवी किंचित्कालान्तरं शुभा
इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति
५.१२.३२बहुविघ्नकरः कालः कालः कालं नयिष्यति
दर्पितो बलवांश्चापि नहुषो वरसंश्रयात्
५.१२.३३शल्य उवाच
५.१२.३४ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन्
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम्
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्
५.१२.३५ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया
५.१२.३६त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम्
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति
५.१२.३७क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति
५.१२.३८एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्
५.१२.३९दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम्
समहृष्यत दुष्टात्मा कामोपहतचेतनः