५. उद्योगपर्व
५.१२५.१वैशंपायन उवाच

५.१२५.२श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम्

५.१२५.३प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव
मामेव हि विशेषेण विभाष्य परिगर्हसे

५.१२५.४भक्तिवादेन पार्थानामकस्मान्मधुसूदन
भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम्

५.१२५.५भवान्क्षत्ता च राजा च आचार्यो वा पितामहः
मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम्

५.१२५.६न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः

५.१२५.७न चाहं कंचिदत्यर्थमपराधमरिंदम
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव

५.१२५.८प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम्

५.१२५.९यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः
तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन

५.१२५.१०अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम्

५.१२५.११केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत्

५.१२५.१२किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह

५.१२५.१३न चापि वयमुग्रेण कर्मणा वचनेन वा
वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः

५.१२५.१४न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम्
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण

५.१२५.१५न हि भीष्मकृपद्रोणाः सगणा मधुसूदन
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः

५.१२५.१६स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे
शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत्

५.१२५.१७मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन
यच्छयीमहि संग्रामे शरतल्पगता वयम्

५.१२५.१८ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे
अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव

५.१२५.१९कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन्
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित्

५.१२५.२०उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेदिह कस्यचित्

५.१२५.२१इति मातङ्गवचनं परीप्सन्ति हितेप्सवः
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः

५.१२५.२२अचिन्तयन्कंचिदन्यं यावज्जीवं तथाचरेत्
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा

५.१२५.२३राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत्
न स लभ्यः पुनर्जातु मयि जीवति केशव

५.१२५.२४यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन
न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव

५.१२५.२५यद्यदेयं पुरा दत्तं राज्यं परवतो मम
अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन

५.१२५.२६न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन
ध्रियमाणे महाबाहो मयि संप्रति केशव

५.१२५.२७यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति