५.१२४.१वैशंपायन उवाच
५.१२४.२धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्
५.१२४.३यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम्
यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम्
५.१२४.४यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः
ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम्
५.१२४.५यावन्न दृश्यते पार्थः स्वेष्वनीकेष्ववस्थितः
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम्
५.१२४.६यावन्न चरते मार्गान्पृतनामभिहर्षयन्
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम्
५.१२४.७गदया वीरघातिन्या फलानीव वनस्पतेः
कालेन परिपक्वानि तावच्छाम्यतु वैशसम्
५.१२४.८नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः
५.१२४.९यावन्न प्रविशन्त्येते नक्रा इव महार्णवम्
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम्
५.१२४.१०यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम्
५.१२४.११चन्दनागरुदिग्धेषु हारनिष्कधरेषु च
नोरःसु यावद्योधानां महेष्वासैर्महेषवः
५.१२४.१२कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम्
५.१२४.१३अभिवादयमानं त्वां शिरसा राजकुञ्जरः
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः
५.१२४.१४ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः
स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ
५.१२४.१५रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु
५.१२४.१६शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः
साम्नाभिवदतां चापि शान्तये भरतर्षभ
५.१२४.१७अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव
५.१२४.१८दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम्
यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः
५.१२४.१९घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम्
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव