५.१३९.१कर्ण उवाच
५.१३९.२असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च
५.१३९.३सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः
निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे
५.१३९.४कन्या गर्भं समाधत्त भास्करान्मां जनार्दन
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत्
५.१३९.५सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा
५.१३९.६सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान्
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन
५.१३९.७मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत्
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव
५.१३९.८तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम्
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः
५.१३९.९तथा मामभिजानाति सूतश्चाधिरथः सुतम्
पितरं चाभिजानामि तमहं सौहृदात्सदा
५.१३९.१०स हि मे जातकर्मादि कारयामास माधव
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन
५.१३९.११नाम मे वसुषेणेति कारयामास वै द्विजैः
भार्याश्चोढा मम प्राप्ते यौवने तेन केशव
५.१३९.१२तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन
तासु मे हृदयं कृष्ण संजातं कामबन्धनम्
५.१३९.१३न पृथिव्या सकलया न सुवर्णस्य राशिभिः
हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे
५.१३९.१४धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात्
मया त्रयोदश समा भुक्तं राज्यमकण्टकम्
५.१३९.१५इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत्
आवाहाश्च विवाहाश्च सह सूतैः कृता मया
५.१३९.१६मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः
५.१३९.१७तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत
वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः
५.१३९.१८वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः
५.१३९.१९यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना
अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः
५.१३९.२०असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः
५.१३९.२१मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम
एतदत्र हितं मन्ये सर्वयादवनन्दन
५.१३९.२२यदि जानाति मां राजा धर्मात्मा संशितव्रतः
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति
५.१३९.२३प्राप्य चापि महद्राज्यं तदहं मधुसूदन
स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम
५.१३९.२४स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः
नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः
५.१३९.२५पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः
नकुलः सहदेवश्च द्रौपदेयाश्च माधव
५.१३९.२६उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः
५.१३९.२७इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा
इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः
५.१३९.२८मातुलो भीमसेनस्य सेनजिच्च महारथः
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन
५.१३९.२९महानयं कृष्ण कृतः क्षत्रस्य समुदानयः
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु
५.१३९.३०धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन
आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति
५.१३९.३१होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः
गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति
५.१३९.३२ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना
५.१३९.३३अनुयातश्च पितरमधिको वा पराक्रमे
ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति
५.१३९.३४उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे
५.१३९.३५स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति
५.१३९.३६शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन
उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति
५.१३९.३७नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ
शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः
५.१३९.३८कल्माषदण्डा गोविन्द विमला रथशक्तयः
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन
५.१३९.३९कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः
तोमराः सोमकलशाः पवित्राणि धनूंषि च
५.१३९.४०असयोऽत्र कपालानि पुरोडाशाः शिरांसि च
हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति
५.१३९.४१इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः
५.१३९.४२इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः
५.१३९.४३प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः
५.१३९.४४घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः
अतिरात्रे महाबाहो वितते यज्ञकर्मणि
५.१३९.४५दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान्
वैताने कर्मणि तते जातो यः कृष्ण पावकात्
५.१३९.४६यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान्
प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा
५.१३९.४७यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति
५.१३९.४८दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः
आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति
५.१३९.४९यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः
तदा यज्ञावसानं तद्भविष्यति जनार्दन
५.१३९.५०दुर्योधनं यदा हन्ता भीमसेनो महाबलः
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव
५.१३९.५१स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य संगताः
हतेश्वरा हतसुता हतनाथाश्च केशव
५.१३९.५२गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन
५.१३९.५३विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ
वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन
५.१३९.५४शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम्
कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव
५.१३९.५५तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम्
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात्
५.१३९.५६यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन
तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति
५.१३९.५७ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम्
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम्
५.१३९.५८समुपानय कौन्तेयं युद्धाय मम केशव
मन्त्रसंवरणं कुर्वन्नित्यमेव परंतप