५.१४२.१वैशंपायन उवाच
५.१४२.२असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत्
५.१४२.३जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे
क्रोशतो न च गृह्णीते वचनं मे सुयोधनः
५.१४२.४उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि
५.१४२.५उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा
५.१४२.६राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते
५.१४२.७जयद्रथस्य कर्णस्य तथा दुःशासनस्य च
सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते
५.१४२.८अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम्
येषां तेषामयं धर्मः सानुबन्धो भविष्यति
५.१४२.९ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत्
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः
५.१४२.१०ततः कुरूणामनयो भविता वीरनाशनः
चिन्तयन्न लभे निद्रामहःसु च निशासु च
५.१४२.११श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम्
अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह
५.१४२.१२धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः
वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः
५.१४२.१३पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः
भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम्
५.१४२.१४पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम्
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः
५.१४२.१५पितामहः शांतनव आचार्यश्च युधां पतिः
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम
५.१४२.१६नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित्
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः
५.१४२.१७अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान्
५.१४२.१८महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः
कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम्
५.१४२.१९आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति
प्रसादयितुमासाद्य दर्शयन्ती यथातथम्
५.१४२.२०तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ
आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि
५.१४२.२१साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता
चिन्तयन्ती बहुविधं हृदयेन विदूयता
५.१४२.२२बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम्
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः
५.१४२.२३धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा
दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी
५.१४२.२४कथं नु सुकृतं मे स्यान्नापराधवती कथम्
भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च
५.१४२.२५कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा
कन्या सती देवमर्कमासादयमहं ततः
५.१४२.२६योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा
५.१४२.२७इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम्
कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति
५.१४२.२८आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः
गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम्
५.१४२.२९प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी
५.१४२.३०अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती
५.१४२.३१आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः
यथान्यायं महातेजा मानी धर्मभृतां वरः