५. उद्योगपर्व
५.१४४.१वैशंपायन उवाच

५.१४४.२ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम्
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम्

५.१४४.३सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा

५.१४४.४एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा

५.१४४.५कर्ण उवाच

५.१४४.६न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव

५.१४४.७अकरोन्मयि यत्पापं भवती सुमहात्ययम्
अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम्

५.१४४.८अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम्
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम्

५.१४४.९क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम
हीनसंस्कारसमयमद्य मां समचूचुदः

५.१४४.१०न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया
सा मां संबोधयस्यद्य केवलात्महितैषिणी

५.१४४.११कृष्णेन सहितात्को वै न व्यथेत धनंजयात्
कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम्

५.१४४.१२अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति

५.१४४.१३सर्वकामैः संविभक्तः पूजितश्च सदा भृशम्
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम्

५.१४४.१४उपनह्य परैर्वैरं ये मां नित्यमुपासते
नमस्कुर्वन्ति च सदा वसवो वासवं यथा

५.१४४.१५मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम्
मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम्

५.१४४.१६मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्
अपारे पारकामा ये त्यजेयं तानहं कथम्

५.१४४.१७अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम्
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता

५.१४४.१८कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः

५.१४४.१९राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्
नैवायं न परो लोको विद्यते पापकर्मणाम्

५.१४४.२०धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे

५.१४४.२१आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम्
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः

५.१४४.२२न तु तेऽयं समारम्भो मयि मोघो भविष्यति
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान्
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते

५.१४४.२३अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया
यशसा चापि युज्येयं निहतः सव्यसाचिना

५.१४४.२४न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि

५.१४४.२५वैशंपायन उवाच

५.१४४.२६इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम्

५.१४४.२७एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम्

५.१४४.२८त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन
दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम्

५.१४४.२९अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत्
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक्